adhyātmopaniṣad
adhyātmopaniṣad
अध्यात्मोपनिषद्
71 verses total— Showing 1–50
Verse 1
अन्तःशरीर निहितो गुहायामज एको नित्यमस्य पृथिवी शरीरं यः पृथिवीमन्तरे संचरन् यं पृथिवी न वेद । यस्यापः शरीरं योऽपोऽन्तरे संचरन् यमापो न विदुः । यस्य तेजः शरीर यस्तेजोऽन्त संचरन्यं तेजो न वेद । यस्य वायुः शरीरं यो वायुमन्तरे संचरन् यं वायुनं वेद । यस्याकाशः शरीरं च आकाशमन्तरे संचरन् यमाकाशो न वेद । यस्य मनः शरीरं यो मनोऽन्तरे संचरन्यं मनो न वेद । यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन् बुद्धिर्न वेद । यस्याहंकारः शरीरं योऽहंकारमन्तरे संचरन् यमहंकारो न वेद। यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन् यं । चित्तं न वेद । यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे संचरन् यमव्यक्तं न वेद । यस्याक्षरं शरीर योऽक्षरमन्तरे संचरन् यमक्षरं न वेद । यस्य मृत्युः शरीरं यो मृत्युमन्तरे संचरन्यं मृत्युर्न वेद । स एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः। अहं ममेति यो भावो देहाक्षादावनात्मनि। अध्यासोऽयं निरस्तव्यो विदुषा ब्रह्मनिष्ठया ॥
Verse 2
ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितवृत्तिसाक्षिणम्।सोऽहमित्येव तद्वृत्त्या स्वान्यत्रात्ममतिं त्यजेत्॥
Verse 3
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम्। शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ।।
Verse 4
स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः।
युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ॥
Verse 5
निद्राया लोकवार्तायाः शब्दादेरात्मविस्मृतेः । क्वचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि ॥
Verse 6
मातापित्रोर्मलोद्भूतं मलमसमयं वपुः । त्यक्त्वा चण्डालवद्रं ब्रह्मीभूय कृती भव ॥
Verse 7
घटाकाशं महाकाश इवात्मानं परात्मनि । विलाप्याखण्ड्भावेन तूष्णीं भव सदा मुने॥
Verse 8
स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना। ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत्॥
Verse 9
चिदात्मनि सदानन्दे देहरूढामहंधियम्। निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥
Verse 10
यत्रैष जगदाभासो दर्पणान्तः पुरं यथा। तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भवानघ ।।
Verse 11
अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते । चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ॥
Verse 12
क्रियानाशाद्भवेच्छिन्तानाशोऽस्माद्वासनाक्षयः । वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते॥
Verse 13
सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम्। सद्भावभावनादाढर्याद्वासनालयमश्नुते ॥ १३ ॥
Verse 14
प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन। प्रमादो मृत्युरित्याहुर्विद्यायां ब्रह्मवादिनः ॥
Verse 15
यथाऽपकृष्टं शैवालं क्षणमात्रं न तिष्ठति । आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥१५
Verse 16
जीवतो यस्य कैवल्यं विदेहोऽपि स केवलः । समाधिनिष्ठतामेत्य निर्विकल्पो भवानघ ॥
Verse 17
अज्ञानहृदयग्रन्थेर्नि:शेषविलयस्तदा । समाधिनाऽविकल्पेन यदाऽद्वैतात्मदर्शनम्॥
Verse 18
अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन्। उदासीनतया तेषु तिष्ठेद्धटपटादिवत् ॥
Verse 19
ब्रह्मादिस्तम्बपर्यन्तं मृषामात्रा उपाधयः । ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम्॥
Verse 20
स्वयं ब्रह्मा स्वयं विष्णु:स्वयमिन्द्रः स्वयं शिवः ।स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किंचन ॥
Verse 21
स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः । स्वयमेव परब्रह्म पूर्णमद्वयमक्रियम्॥
Verse 22
असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि। निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥
Verse 23
द्रष्ट्रदर्शनदृश्यादिभावशून्ये निरामये। कल्पार्णव इवात्यन्तं परिपूर्णे चिदात्मनि ॥
Verse 24
तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम्। अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥
Verse 25
एकात्मके परे तत्त्वे भेदकर्ता कथं वसेत् । सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥
Verse 26
चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन। अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥
Verse 27
अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः । बहिरन्तः सदानन्दरसास्वादनमात्मनि ॥
Verse 28
वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम्।स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् ॥
Verse 29
यद्युत्तरोत्तराभावे पूर्वपूर्वं तु निष्फलम्। निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः ।।
Verse 30
मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः । पारोक्ष्यशबल:सत्याद्यात्मकस्तत्पदाभिधः ॥ ३
Verse 31
आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । अन्त:करणसंभिन्नबोधः स त्वंपदाभिधः ॥
Verse 32
मायाविद्ये विहायैव उपाधी परजीवयोः। अखण्डं सच्चिदानन्दं परं ब्रह्म विलक्ष्यते ॥
Verse 33
इत्थं वाक्यैस्तदर्थानुसंधानं श्रवणं भवेत्। युक्त्या संभावितत्वानुसंधानं मननं तु तत्॥
Verse 34
ताभ्यां निर्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत्। एकतानत्वमेतद्धि निदिध्यासनमुच्यते ॥
Verse 35
ध्यातृध्याने परित्यज्य क्रमाद्धयेयैकगोचरम्। निवातदीपवच्चित्तं समाधिरभिधीयते ॥
Verse 36
वृत्तयस्तु तदानीमप्यज्ञाता आत्मगोचराः । स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थिताः ॥
Verse 37
अनादाविह संसारे संचिताः कर्मकोटयः। अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥
Verse 38
धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः । वर्षत्येष यथा धर्मामृतधाराः सहस्त्रशः ॥
Verse 39
अमुना वासनाजाले नि:शेष प्रविलापिते । समूलोन्मूलिते पुण्यपापाख्ये कर्मसंचये॥
Verse 40
वाक्यमप्रतिबद्धे सत्प्राक्परोक्षावभासते। करामलकवद्वोधमपरोक्ष प्रसूयते ॥
Verse 41
वासनानुदयो भोग्ये वैराग्यस्य तदावधिः। अहंभावोदयाभावो बोधस्य परमावधिः ॥
Verse 42
लीनवृत्तेरनुत्पत्तिर्मर्यादोपरतेस्तु सा। स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते ॥
Verse 43
ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः । ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनि ॥
Verse 44
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते। सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ।।
Verse 45
देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके। यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥
Verse 46
न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥
Verse 47
साधुभिः पूज्यमानेऽस्मिन्पीयमानेऽपि दुर्जनैः । समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥
Verse 48
विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः। अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥
Verse 49
सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते। फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् ॥
Verse 50
अहं ब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम्। संचितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥