Upanishad 38 Transliteration
Upanishad 38 Transliteration
अक्षमालिकोपनिषद्
16 verses total
Verse 1
अथ प्रजापतिर्गुहं पप्रच्छ भो ब्रह्मत्रक्षमालाभेदविधिं ब्रूहीति ।
सा किं लक्षणा कति भेदा अस्याः कति सूत्राणि कथं घटनाप्रकारः के वर्णाः का प्रतिष्ठा कैवास्याधिदेवता किं फलं चेति ॥
Verse 2
तं गुहः प्रत्युवाच प्रवालमौक्तिकस्फटिकशङ्ख रजताष्टापदचन्दनपुत्रजीविकाब्जे रुद्राक्षा इति। आदिक्षान्तमूर्तिः सावधानभावा। सौवर्ण राजातं ताम्रं चेति सूत्रत्रयम्।
तद्विरे सौवर्णं तदक्षपार्श्वे राजतं तदवामे ताम्रं तन्मुखे मुखं तत्पुच्छे पुच्छं तदन्तरावर्तनक्रमेण योजयेत्॥
Verse 3
यदस्यान्तरं सूत्रं तद्ब्रह्म।
यद्दक्षपार्श्वे तच्छैवम्।
यद्वामे तद्वैष्णवम्।
यन्मुखं सा सरस्वती।
यत्पुच्छं सा गायत्री।
यत्सुषिरं सा विद्या।
या ग्रन्थिः सा प्रकृतिः।
ये स्वरास्ते धवलाः।
ये स्पर्शास्ते पीताः।
ये परास्ते रक्ताः।।
Verse 4
अथ तां पञ्चभिर्गव्यैरमृतैः पञ्चभिव्यैस्तनुभिः शोधयित्वा पञ्चभिर्गव्यैर्गन्धोदकेन संस्नाप्य तस्मात्सोङ्कारेण पत्रकूर्चेन स्नपयित्वाष्टभिर्गन्धैरालिप्य सुमन:स्थले निवेश्याक्षतपुष्पैराराध्य प्रत्यक्षमादिक्षान्तैर्वर्णैर्भावयेत्।।
Verse 5
ओमंकार मृत्युंजय सर्वव्यापक प्रथमेऽक्षे प्रतितिष्ठ।
ओमाङ्काराकर्षणात्मक सर्वगत द्वितीयेऽक्षे प्रतितिष्ठ।
ओमिङ्कार पुष्टिदा क्षोभकर तृतीयेऽक्षे प्रतितिष्ठ।
ओमीङ्कार वाक्प्रसादकर निर्मल चतुर्थेऽक्षे प्रतितिष्ठ।
ओमुङ्कार सर्वबलप्रद सारतर पञ्चमेऽक्षे प्रतितिष्ठ।
ओमृङ्कारोच्चा-टनकर दुःसह षष्ठेऽक्षे प्रतितिष्ठ।
ओमृङकार संक्षोभकर चञ्चल सप्तमेऽसे प्रतितिष्ठ।
ओमृङ्कार संमोहनकरोज्ज्वलाष्टमेऽक्षे प्रतितिष्ठ।
ओम्लङकार विद्वेषणकर मोहक नवमेऽक्षे प्रतितिष्ठ।
ओम्लंकार मोहकर दशमेऽक्षे प्रतितिष्ठ।
ओमेङ्कार सर्ववश्यकर शुद्धसत्त्वैकादशेऽक्षे प्रतितिष्ठ।
ओमैङ्कार शुद्धसात्त्विक पुरुषवश्यकर द्वादशेऽक्षे प्रतितिष्ठ। ओमोङ्काराखिलवाड्मय नित्यशुद्ध त्रयोदशेऽक्षे प्रतितिष्ठ।
ओमौङ्कार सर्ववाङ्मय वश्यकर शान्त चतुर्दशेऽक्षे प्रतितिष्ठ।
ओमङ्कार गजादिवश्यकर मोहन पञ्चदशेऽक्षे प्रतिष्ठि।
ओम:कार मृत्यनाशनकर रौद्र षोडशेऽक्षे प्रतितिष्ठ।
ॐ कंकार सर्वविषहर कल्याणप्रद सप्तदशेऽक्षे प्रतितिष्ठ।
ॐ खंकार सर्वक्षोभकर व्यापकाष्टादशेऽक्षे प्रतितिष्ठ।
ॐ गंकार सर्वविघ्शमन महत्तरैकोनविंशेऽक्षे प्रतितिष्ठ ॐ घंकार सौभाग्यप्रद स्तम्भनकर विंशेऽक्षे प्रतितिष्ठ।
ॐ ङंकार सर्वविषनाशकरोग्रैकविंशेऽक्षे प्रतितिष्ठ।
ॐ चाङकाराभिचारघ्र क्रूर द्वाविंशेऽक्षे प्रति तिष्ठ।
ॐ छंकार भूतनाशकर भीषण त्रयोविंशेऽक्षे प्रतितिष्ठ।
ॐ जङ्कार कृत्यादिनाशकर दुर्धर्ष चतुर्विशेऽक्षे प्रतितिष्ठ।
ॐ झंकार भूतनाशकर पञ्चविंशेऽक्षे प्रतितिष्ठ।
ॐ त्रंकार मृत्युप्रमथन षड्विंशेऽक्षे प्रतितिष्ठ।
ॐ टंकार सर्वव्याधिहर सुभग सप्तविंशेऽक्षे प्रतितिष्ठ।
ॐ ठंकार चन्द्ररूपाष्टाविंशे ऽक्षे प्रतितिष्ठ। ॐ डङकार गरुडात्मक विषघ्र शोभनैकोनत्रिंशे ऽक्षे प्रतितिष्ठ।
ॐ ढंकार सर्वसंपत्प्रद सुभग त्रिंशेऽक्षे प्रतितिष्ठ।
ॐ णंकार सर्वसिद्धिप्रद मोहकरैकत्रिंशेऽक्षे प्रतितिष्ठ।
ॐ तंकार धनधान्यादिसंपत्प्रद प्रसन्न द्वात्रिंशेऽक्षे प्रतितिष्ठ।
ॐ थङ्कार धर्मप्राप्तिकर निर्मल त्रयस्त्रिंशेऽक्षे प्रतितिष्ठ।
ॐ दङ्कार पुष्टिवृद्धिकर प्रियदर्शन चतुस्विंशेऽक्षे प्रतितिष्ठ।
ॐ धङ्कार विषज्वरनिघ्न विपुल पञ्चत्रिंशेऽक्षे प्रतितिष्ठ।
ॐ नङ्कार भुक्तिमुक्तिप्रद शान्त षट्त्रिंशेऽक्षे प्रतितिष्ठ।
ॐ पङ्कार विषविघ्नाशन भव्य सप्तत्रिंशेऽक्षे प्रतितिष्ठ। ॐ फङ्काराणिमादिसिद्धिप्रद ज्योतीरूपाष्टत्रिंशेऽक्षे प्रतितिष्ठ।
ॐ बंकार सर्वदोषहर शोभनैकोनचत्वारिंशेऽक्षे प्रतितिष्ठ।
भंकार भूतप्रशान्तिकर भयानक चत्वारिंशेऽक्षे प्रतितिष्ठ।
ॐ मंकार विद्वेषिमोहनकरैकचत्वारिंशेऽक्षे प्रतितिष्ठ।
ॐ यङकार सर्वव्यापक पावन द्विचत्वारिंशेऽक्षे प्रतितिष्ठ।
ॐ रंकार दाहकर विकृत त्रिचत्वारिंशेऽक्षे प्रतितिष्ठ।
ॐ लंकार विशंभर भासुर चतुश्चत्वारिंशेऽक्षे प्रतितिष्ठ।
ॐ वंकार सर्वाप्यायनकर निर्मल पञ्चचत्वारिंशेऽक्षे प्रतितिष्ठ।
ॐ शंकार सर्वफलप्रद पवित्र षट्चत्वारिंशेऽक्षे प्रतितिष्ठ।
ॐ षंकार धर्मार्थकामद धवल सप्तचत्वारिंशेऽक्षे प्रतितिष्ठ।
संकार सर्वकारण सार्ववर्णिकाष्टचत्वारिंशेऽक्षे प्रतितिष्ठ।
ॐ हंकार सर्ववाड्मय निर्मलैकोनपञ्चाशदऽक्षे प्रतितिष्ठ।
ॐ ळङकार सर्वशक्तिप्रद प्रधान पञ्चाशदक्षे प्रतितिष्ठ।
ॐ क्षंकार परापरतत्त्वज्ञापक परंज्योतीरूप शिखामणौ प्रतितिष्ठ।।
Verse 6
अथोवाच ये देवाः पृथिवीषदस्तेभ्यो नमो भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु शोभायै ज्ञानमयीमक्षमालिकाम् ।।
Verse 7
अथोवाच ये देवा अन्तरिक्षसदस्तेभ्य ॐ नमो भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु शोभायै ज्ञानमयीमक्षमालिकाम् ।।
Verse 8
अधोवाच ये देवा दिविषदस्तेभ्यो नमो भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु शोभायै ज्ञानमयीमक्षमालिकाम् ।।
Verse 9
अथोवाच ये मन्त्रा या विद्यास्तेभ्यो नमस्ताभ्यश्चोन्नमस्तच्छक्तिरस्याः प्रतिष्ठापयति ।।
Verse 10
अथोवाच ये ब्रह्मविष्णुरुद्रास्तेभ्यः सगुणेभ्य ॐ नमस्तद्वीर्यमस्याः प्रतिष्ठापयति ।।
Verse 11
अधोवाच ये सांख्यादितत्त्वभेदास्तेभ्यो नमो वर्तध्वं विरोधेनिवर्तध्वम्।।
Verse 12
अथोवाच ये शैवा वैष्णवाः शाक्ताः शतसहस्रशस्तेभ्यो नमो नमो भगवन्तोऽनुमदन्त्वनुगृहन्तु ।।
Verse 13
अथोवाच याश्च मृत्योः प्राणवत्यस्ताभ्यो नमो नमस्तेनैतां मृडयत मृडयत ।।
Verse 14
पुनरेतस्यां सर्वात्मकत्वं भावयित्वा भावेन पूर्वमालिकामुत्पाद्यारभ्य तन्मय महोपहरैरुपहत्य आदिक्षान्तैरक्षरैक्षमालामष्टोत्तरशतं स्पृशेत् ।।
Verse 15
अश पुनरुत्थाप्य प्रदक्षिणीकृत्यों नमस्ते भगवति मन्त्रमातृकेऽक्षमाले सर्ववशंकर्यो नमस्ते भगवति मन्त्रमातृकेऽक्षमालिके शेषस्तम्भिन्यों नमस्ते भगवति मन्त्रमातृकेऽक्षमाले उच्चाटन्यों नमस्ते भगवति मन्त्रमातृकेऽक्षमाले विश्वामृत्यों मृत्युंजयस्वरूपिणि सकलोद्दीपिनि सकललोकरक्षाधिके सकललोकोज्जीविके सकललोकोत्पादिके दिवाप्रवर्तिके रात्रिप्रवर्तिके नद्यन्तरं यासि देशान्तरं यासि द्वीपान्तरं यासि लोकान्तरं यासि सर्वदा स्फुरसि सर्वहृदि वासयसि।
नमस्ते परारूपे नमस्ते पश्यन्तीरूपे नमस्ते मध्यमारूपे नमस्ते वैखरीरूपे सर्वतत्त्वात्मिके सर्वविद्यात्मिके सर्वशक्तयात्मिके सर्वदेवात्मिके वसिष्ठेन मुनिनाराधिते विश्वामित्रेण मुनिनोपजीव्यमाने नमस्ते नमस्ते ।।
Verse 16
प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति। तत्सायंप्रातः प्रयुञ्जानः पापोऽपापो भवति । एवमक्षमालिकया जप्तो मन्त्रः सद्यः सिद्धिको भवतीत्याह भगवान्गुहः प्रजापतिमित्युपनिषत् ।।