Upanishad 68 Transliteration

Upanishad 68 Transliteration

अमृतनादोपनिषद्

39 verses total

Verse 1
शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः। परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत्।।
Verse 2
ओंकाररथमारूह्य विष्णुं कृत्वाथ सारथिम्। ब्रह्मलोकपदान्वेषी रूद्राराधनतत्परः।।
Verse 3
तावद्रथे गन्तव्य यावद्रथपथि स्थतिः। स्थात्वा रथपतिस्थानं रथमुत्सृज्य गच्छति।।
Verse 4
मात्रालिङ्गपदं त्याक्त्वा शब्दव्यञ्जनवर्जितम्। अस्वरेण मकारेण पदं सूक्ष्मं हि गचछति।।
Verse 5
शब्दादि विषयान्पञ्च मनश्चैवातिचञ्चलम्। चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते।।
Verse 6
प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा। तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ।।
Verse 7
यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः। तथेन्द्रियकृता दोषा दह्यन्ते प्राणधारणात्।।
Verse 8
प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्गुणान् ।।
Verse 9
किल्बिषं हि क्षयं नीत्वा रूचिरं चैव चिन्तयेत् ।।
Verse 10
रूचिरं रेचकं चैव वायोराकर्षणं तथा । प्राणायामास्त्रयः प्रोक्ता रेचपूरककुम्भकाः।।
Verse 11
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ।।
Verse 12
उत्क्षिप्य वायुमाकाशे शून्यं कृत्वा निरात्मकम् । शून्यभावे नियुञ्जीयाद्रेचकस्येति लक्षणम् ।।
Verse 13
वक्त्रेणोत्पलनालेन तोयमाकर्षयेन्नरः। एवं वायुर्गहीतव्यः पूरकस्येति लक्षणम्।।
Verse 14
नोच्छ्वसेन्न च निश्वसेन्नैव गात्राणि चालयेत् । एवं भावं नियुञ्जीयात्कुम्भकस्येति लक्षणम्।।
Verse 15
अन्धवत्पश्य रूपाणि शब्दं बधिरवच्छृणु। काष्ठवत्पश्य वै देहं प्रशान्तस्येति लक्षणम्।।
Verse 16
मन:संकल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान्। धारयित्वा तथात्मानं धारणा परिकीर्तिता ॥
Verse 17
आगमस्याविरोधेन ऊहनं तर्क उच्यते। समं मन्येत यल्लब्ध्वा स समाधिः प्रकीर्तितः ॥
Verse 18
भूमौ दर्भासने रम्ये सर्वदोषविवर्जिते। कृत्वा मनोमयीं रक्षां जप्त्वा वै रथमण्डले॥
Verse 19
पद्मकं स्वस्तिकं वापि भद्रासनमथापि वा। बद्धवा योगासनं सम्यगुत्तराभिमुखः स्थितः ॥
Verse 20
नासिकापुटमङ्गुल्या पिधायैकेन मारुतम्। आकृष्य धारयेदग्निं शब्दमेव विचिन्तयेत् ॥
Verse 21
ओमित्येकाक्षरं ब्रह्म ओमित्येतन्न रेचयेत्। दिव्यमन्त्रेण बहुधा कुर्यादामलमुक्तये॥
Verse 22
पश्चाद्धयायीत पूर्वोक्तक्रमशो मन्त्रविद्बुधः। स्थूलादिस्थूलसूक्ष्मं च नाभेरूर्ध्वमुपक्रमः॥
Verse 23
तिर्यगूर्ध्वमधोदृष्टिं विहाय च महामतिः। स्थिरस्थायी विनिष्कम्पः सदा योगं समभ्यसेत् ॥
Verse 24
तालमात्राविनिष्कम्पो धारणायोजनं तथा। द्वादशमात्रो योगस्तु कालतो नियमः स्मृतः ॥
Verse 25
अघोषमव्यञ्जनमस्वरं च अतालुकण्ठोष्ठमनासिकं च यत्। अरेफजातमुभयोष्मवर्जितं यदक्षरं न क्षरते कथंचित्॥
Verse 26
येनासौ गच्छते मार्गं प्राणस्तेनाभिगच्छति। अतस्तमभ्यसेन्नित्यं यन्मार्गगमनाय वै॥
Verse 27
हृद्द्वारं वायुद्वारं च मूर्धद्वारमथापरम्। मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः ॥
Verse 28
भयं क्रोधमथालस्यमतिस्वप्नातिजागरम्। अत्याहारमनाहारं नित्यं योगी विवर्जयेत् ॥
Verse 29
अनेन विधिना सम्यङ् नित्यमभ्यस्यते क्रमात्। स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैर्न संशयः ॥
Verse 30
चतुर्भिः पश्यते देवान्पञ्चभिर्विततःक्रमः। इच्छयाप्नोति कैवल्यं षष्ठे मासि न संशयः॥
Verse 31
पार्थिवः पञ्चमात्रस्तु चतुर्मात्रस्तु वारुणः। आग्नेयस्तु त्रिमात्रोऽसौ वायव्यस्तु द्विमात्रकः॥
Verse 32
एकमात्रस्तथाकोशो ह्यर्धमात्रं तु चिन्तयेत्। संधिं कृत्वा तु मनसा चिन्तयेदात्मनात्मनि॥
Verse 33
त्रिंशत्सार्धाङ्गुलः प्राणो यत्र प्राणैः प्रतिष्ठितः। एष प्राण इति ख्यातो बाह्यप्राणस्य गोचरः ॥
Verse 34
अशीतिश्च शतं चैव सहस्त्राणि त्रयोदश। लक्षश्चैको विनिश्वास अहोरात्रप्रमाणतः॥
Verse 35
प्राण आद्यो हृदि स्थाने अपानस्तु पुनर्गुदे। समानो नाभिदेशे तु उदानः कण्ठमाश्रितः॥
Verse 36
व्यानः सर्वेषु चाङ्गेषु व्याप्य तिष्ठति सर्वदा। अथ वर्णास्तु पञ्चानां प्राणादीनामनुक्रमात्॥
Verse 37
रक्तवर्णो मणिप्रख्यः प्राणवायुः प्रकीर्तितः। अपानस्तस्य मध्ये तु इन्द्रगोपसमप्रभः॥
Verse 38
समानस्तु द्वयोर्मध्ये गोक्षीरधवलप्रभः। आपाण्डुर उदानश्च व्यानो ह्यर्चिःसमप्रभः॥
Verse 39
यस्येदं मण्डलं भित्त्वा मारुतो याति मूर्धनि। यत्र कुत्र म्रियेद्वापि न स भूयोऽभिजायते न स भूयोऽभिजायत इत्युपनिषत् ॥