Upanishad 3 Transliteration
Upanishad 3 Transliteration
अवधूतोपनिषद्
35 verses total
Verse 1
अथ ह सांकृतिर्भगवन्तमवधूतं दत्तात्रेयं परिसमेत्य पप्रच्छ। भगवन्कोऽवधूतस्तस्य का स्थितिः किं लक्ष्म किं संसरणमिति। तं होवाच भगवो दत्तात्रेयः परमकारुणिकः ॥ अक्षरत्वाद्वरेण्यत्वाद्धूतसंसारबन्धनात्। तत्त्वमस्यादिलक्ष्यत्वावधूत इतीर्यते ॥
Verse 2
यो विलङ्घयाश्रमान्वर्णानात्मन्येव स्थितः सदा।
अतिवर्णाश्रमी योगी अवधूतः स कथ्यते ॥
Verse 3
तस्य प्रियं शिरः कृत्वा मोदो दक्षिणपक्षकः ।
प्रमोद उत्तरः पक्ष आनन्दो गोष्पदायते ॥
Verse 4
गोवालसदृशं शीर्षे नापि मध्ये न चाप्यधः। ब्रह्म पुच्छं प्रतिष्ठेति पुच्छाकारेण कारयेत् । एवं चतुष्पदं कृत्वा ते यान्ति परमां गतिम्॥
Verse 5
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥
Verse 6
स्वैरं स्वैरविहरणं तसंसरणम्। साम्बरा वा दिगम्बरा वा ।न तेषां धर्माधर्मौ न मेध्यामेध्यौ। सदा सांग्रहण्येष्ट्याश्वमेधमन्तर्यागं यजते । स महामखो महायोगः ॥
Verse 7
कृत्स्नमेतच्चित्रं कर्म । स्वैरं न विगायेत्तन्महाव्रतम्। न स मूढवल्लिप्यते ॥
Verse 8
यथा रविः सर्वरसान्प्रभुङ्क्ते हुताशनश्चापि हि सर्वभक्षः।
तथैव योगी विषयान्प्रभुङ्क्ते न लिप्यते पुण्यपापैश्च शुद्धः ॥
Verse 9
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥
Verse 10
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥
Verse 11
ऐहिकामुष्मिकव्रातसिद्ध्यै मुक्तेश्च सिद्धये। बहुकृत्यं पुरा स्यान्मे तत्सर्वमधुना कृतम्॥
Verse 12
तदेव कृतकृत्यत्वं प्रतियोगिपुर:सरम्। दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया ॥
Verse 13
परमानन्दपूर्णोऽहं संसरामि किमिच्छया। अनुतिष्ठन्तु कर्माणि परलोकयियासवः ॥
Verse 14
सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम्।व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा ॥
Verse 15
येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च॥
Verse 16
द्रष्टारश्चेत्कल्पयन्तु किं मे स्यादन्यकल्पनात्। गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना।। नान्यारोपितसंसार धर्मानेवमहं भजे ॥
Verse 17
शृण्वन्त्वज्ञाततत्त्वास्ते जानन्कस्माच्छृणोम्यहम्। मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः॥
Verse 18
विपर्यस्तो निदिध्यासे किं ध्यानमविपर्यये।
देहात्मत्वविपर्यास न कदाचिद्भजाम्यहम्॥
Verse 19
अहं मनुष्य इत्यादिव्यवहारो विनाप्यमुम्। विपर्यासं चिराभ्यस्तवासनातोऽवकल्पते ॥
Verse 20
आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते । कर्मक्षये त्वसौ नैव शाम्येयानसहस्त्रतः ॥
Verse 21
विरलत्वं व्यवहृतेरिष्टं चेद्ध्यानमस्तु ते। बाधिकर्मव्यवहृतिं पश्यन्ध्यायाम्यहं कुतः ॥
Verse 22
विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम।
विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः ॥
Verse 23
नित्यानुभवरूपस्य को मेऽत्रानुभवः पृथक् कृतं कृत्यं प्रापणीयं प्राप्तमित्येव नित्यशः ॥
Verse 24
व्यवहारो लौकिको वा शास्त्रीयो वाऽन्यथापि वा। ममाकर्तुरलेपस्य यथारखधं प्रवर्तताम्॥
Verse 25
अथवा कृतकृत्योऽपि लोकानुग्रहकाम्यया।शास्त्रीयेणैव मार्गेण वर्तेऽहं मम का क्षतिः ॥
Verse 26
देवार्चनस्नानशौचभिक्षादौ वर्ततां वपुः । तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्तकम्॥
Verse 27
विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम्। साक्ष्यहं किंचिदप्यत्र न कुर्वे नापि कारये ॥
Verse 28
कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः । तृप्यन्नेवं स्वमनसा मन्यतेऽसौ निरन्तरम्॥
Verse 29
धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेद्मि।।
धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम्॥
Verse 30
धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य। धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्वापि॥
Verse 31
धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किंचित्। धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमत्र संपन्नम्॥
Verse 32
धन्योऽहं धन्योऽहं तृप्तेर्मे कोपमा भवेल्लोके। धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः ॥
Verse 33
अहो पुण्यमहो पुण्यं फलितं फलितं दृढम्। अस्य पुण्यस्य संपत्तेरहो वयमहो वयम्॥
Verse 34
अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम्। अहो शास्त्रमहो शास्त्रमहो गुरुहो गुरुः ॥
Verse 35
इति य इदमधीते सोऽपि कृतकृत्यो भवति। सुरापानात्पूतो भवति। स्वर्णस्तेयात्पूतो भवति। ब्रह्महत्यात्पूतो भवति। कृत्याकृत्यात्पूतो भवति। एवं विदित्वा स्वेच्छाचारपरो भूयादोंसत्यमित्युपनिषत् ॥