Upanishad 60 Transliteration
Upanishad 60 Transliteration
बवृचोपनिषद्
9 verses total
Verse 1
देवी ह्येकाग्न आसीत्।
सैव जगदण्डमसृजत् ।
कामकलेति विज्ञायते ।
शृङ्गारकलेति विज्ञायते ॥
Verse 2
तस्या एव ब्रह्मा अजीजनत् ।
विष्णुरजीजनत् ।
रुद्रोऽजीजनत् ।
सर्वे मरुद्गणा अजीजनन्।
गन्धर्वा-प्सरसः किंनरा वादित्रवादिनः समन्तादजीजनन्।
भोग्यमजीजनत् ।
सर्वमजीजनत् ।
सर्वं शाक्तम-जीजनतू।
अण्डणं स्वेदजमुद्भिज्जं जरायुजं यत्किचैतत्प्राणिस्थावरजङ्गमं मनुष्यमजीजनत् ।।
Verse 3
सैषाऽपरा शक्तिः ।
सैषा शांभवी विद्या कादिविद्येति वा हादिविद्येति वा सादिविद्येति वा रहस्यम्।
ओमों वाचि प्रतिष्ठा ।।
Verse 4
सैव पुरत्रयं शरीरत्रयं व्याप्य बहिरन्तरवभासयन्ती देशकालवस्त्वन्तरसङ्गान्महात्रिपुरसुन्दरी वै प्रत्यक् चितिः ॥
Verse 5
सैवात्मा ततोऽन्यदसत्यमनात्मा।
अत एषा ब्रह्मसंवित्तिर्भावाभावकलाविनिर्मुक्ता चिद्विद्याद्वितीयब्रह्मसंवित्तिः सच्चिदानन्दलहरी महात्रिपुरसुन्दरी बहिरन्तरनुप्रविश्य स्वयमेकैव विभाति ।
यदस्ति सन्मात्रम्।
यद्विभाति चिन्मात्रम्। यत्प्रियमानन्दं तदेतत्सर्वाकारा
महात्रिपुरसुन्दरी।
त्वं चाहे च सर्वं विश्वं सर्वदेवता।
इतरत्सर्वं महात्रिपुरसुन्दरी।
सत्यमेकं ललिताख्यं वस्तु तदद्वितीयमखण्डार्थं परं ब्रह्म॥
Verse 6
पञ्चपपरित्यागादस्वरूपप्रहाणतः ।
अधिष्ठानं परं तत्त्वमेकं सच्छिष्यते महत् इति ॥
Verse 7
प्रज्ञानं ब्रह्मेति वा अहं ब्रह्मास्मीति वा भाष्यते। तत्त्वमसीत्येव संभाष्यते।
अयमात्मा
ब्रह्मेति वा अहं ब्रह्मास्मीति वा ब्रह्मैवाहमस्मीति वा ॥
Verse 8
योऽहमस्मीति वा सोऽहमस्मीति वा योऽसौ सोऽहमस्मीति वा या भाष्यते सैषा षोडशी श्रीविद्या पञ्चदशाक्षरी श्रीमहात्रिपुरसुन्दरी बालाम्बिकेति बगलेति वा मातङ्गीति स्वयंवरकल्या-णीति भुवनेश्वरीति चामुण्डेति चण्डेति वाराहीति तिरस्करिणीति राजमातङ्गीति वा शुकश्यामलेति वा लघुश्यामलेति वा अश्वारूढेति वा प्रत्यङ्गिरा धूमावती सावित्री सरस्वती गायत्री ब्रह्मानन्दकलेति ॥
Verse 9
ऋचो अक्षरे परमे व्योमन्।
यस्मिन्देवा अधि विश्वे निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति।
य इत्तद्विदुस्त इमे समासते ॥
इत्युपनिषत् ॥