Upanishad 61 Transliteration
Upanishad 61 Transliteration
भावनोपनिषद्
4 verses total
Verse 1
श्रीगुरुः सर्वकारणभूता शक्तिः ॥
Verse 2
केन नवरन्ध्ररूपो देहः।
नवशक्तिरूपं श्रीचक्रम।
वाराही पितृरूपा।
कुरुकुल्ला बलिदेवता माता।
पुरुषार्थाः सागराः।
देहो नवरत्नद्वीपः।
आधारनवकमुद्रा: शक्तयः।
त्वगादिसप्तधातुभिर-नेकैः संयुक्ताः संकल्पाः कल्पतरवः।
तेज: कल्पकोद्यानम्।रसनया भाव्यमाना मधुराम्लतिक्त-कटुकषायलवणभेदाः षड्रसाः षडृतवः ।
क्रियाशक्तिः पीठम्।
कुण्डलिनी ज्ञानशक्तिर्गृहम्। इच्छाशक्तिर्महात्रिपुरसुन्दरी।
ज्ञाता होता ज्ञानमग्निः ज्ञेयं हविः। ज्ञातृज्ञानज्ञेयानामभेदभावनं श्रीचक्रपूजनम्। नियतिसहिताः श्रृङ्गारादयो नव रसा अणिमादयः। कामक्रोधलोभमोहमद-मात्सर्यपुण्यपापमया ब्राह्मयाद्यष्टशक्तयः । पृथिव्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवा-क्पाणिपादपायूपस्थमनोविकाराः षोडश शक्तयः ।
वचनादानगमनविसर्गानन्दहानोपेक्षाबुद्धयो-ऽनङ्गकुसुमादिशक्तयोऽष्टौ।
अलम्बुसा कुहूर्विश्वोदरी वरुणा हस्तिजिह्वा यशस्वत्यश्विनी गान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति चतुर्दश नाड्यः। सर्वसंक्षोभिण्यादिचतुर्दशारगा देवताः। प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनंजया इति दश वायवः ।
सर्वसिद्धि-प्रदा देव्यो बहिर्दशारगा देवताः। एतद्वायुदशकसंसर्गोपाथिभेदेन रेचकपूरकशोषकदाहक-प्लावका अमृतमिति प्राणमुख्यत्वेन पञ्चविधोऽस्ति ।
क्षारको दारकः क्षोभको मोहको जृम्भक इत्यपालनमुख्यत्वेन पञ्चविधोऽस्ति ।
तेन मनुष्याणां मोहको दाहको भक्ष्यभोज्यलेह्यचोष्यपेया-त्मकं चतुर्विधमन्नं पाचयति।
एता दश वह्निकलाः सर्वात्वाद्यन्तर्दशारगा देवताः। शीतोष्णसुखदुःखेच्छासत्त्वरजस्तमोगुणा वशिन्यादिशक्तयोऽष्टौ।
शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्च पुष्पबाणा मन इक्षुधनुः।
वश्यो बाणो रागः पाशः।
द्वेषोऽङ्कुशः।
अव्यक्तमहत्तत्त्वमहदहंकार इति कामेश्वरीवज्नेश्वरीभगमालिन्योऽन्तस्त्रिकोणाग्नगा देवताः ।
पञ्चदशतिथिरूपेण कालस्य परिणामावलोकनस्थितिः पञ्चदश नित्या श्रद्धानुरूपाधिदेवता।
तयोः कामेश्वरी सदानन्दघना परिपूर्णस्वात्मैक्यरूपा देवता ।।
Verse 3
सलिलमिति सौहित्यकारणं सत्त्वं । कर्तव्यमकर्तव्यमिति भावनायुक्त उपचारः।
अस्ति नास्तीति कर्तव्यता उपचारः। बाह्याभ्यन्त:करणानां रूपग्रहणयोग्यताऽस्त्वित्यावाहनम्।
तस्य वाह्याभ्यन्तःकरणानामेकरूपविषयग्रहणमासनम्।
रक्तशुक्लपदैकीकरणं पाद्यम्।
उज्ज्वलदा-मोदानन्दासनदानमर्घ्यम्।
स्वच्छं स्वत:सिद्धमित्याचमनीयम्। चिच्चन्द्रमयीति सर्वाङ्गस्त्रवणं स्नानम्। चिदग्निस्वरूपपरमानन्दशक्तिस्फुरणं वस्त्रम्। प्रत्येकं सप्तविंशतिधा भिन्नत्वेनेच्छाज्ञान-क्रियात्मकब्रह्मग्रन्थिमद्रसतन्तुब्रह्मनाडी ब्रह्मसूत्रम्।
स्वव्यतिरिक्तवस्तुसङ्गरहितस्मरणं विभूषणम्। स्वच्छस्वपरिपूर्णतास्मरणं गन्धः ।
समस्तविषयाणां मनसः स्थैर्येणानुसंधानं कुसुमम् । तेषामेव सर्वदा स्वीकरणं धूपः । पवनावच्छिन्नोर्ध्वग्वलनसच्चिदुल्काकाशदेहो दीपः । समस्तयाताया-तवर्ज्यं नैवेद्यम् । अवस्थात्रयाणामेकीकरणं ताम्बूलम्। मूलाधारादाब्रह्मरन्ध्रपर्यन्तं ब्रह्मरन्ध्रादा-मूलाधारपर्यन्तं गतागतरूपेण प्रादक्षिण्यम्। तुर्यावस्था नमस्कारः ।
देहशून्यप्रमातृतानिमज्जनं बलिहरणम्।
सत्यमस्ति कर्तव्यमकर्तव्यमौदासीन्यनित्यात्मविलापनं होमः।
स्वयं तत्पादुका-निमज्जनं परिपूर्णध्यानम्॥
Verse 4
एवं मुहूर्तत्रयं भावनापरो जीवन्मुक्तो भवति।
तस्य देवतात्मैक्यसिद्धिः।
चिन्तितकार्याण्य-यत्नेन सिद्धयन्ति।
स एव शिवयोगीति कथ्यते ॥