Upanishad 22 Transliteration
Upanishad 22 Transliteration
ब्रह्मविद्योपनिषद्
110 verses total— Showing 1–50
Verse 1
अथ ब्रह्मविद्योपनिषदुच्यते।
प्रसादाद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः। रहस्यं ब्रह्मविद्याया ध्रुवाग्निं संप्रचक्षते ॥
Verse 2
ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः । शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा ॥
Verse 3
तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः । तिस्त्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य तु ॥
Verse 4
ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च। अकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ।।
Verse 5
यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च। विष्णुश्च भगवान्देव उकारः परिकीर्तितः ॥
Verse 6
सामवेदस्तथा द्यौशाहवनीयस्तथैव च। ईश्वरः परमो देवो मकारः परिकीर्तितः ॥
Verse 7
सूर्यमण्डलमध्येऽथ ह्यकारः शङ्खमध्यगः । उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यवस्थितः ॥
Verse 8
मकारस्त्वग्निसंकाशो विधूमो विद्युतोपमः। तिस्त्रो मात्रास्तथा ज्ञेयाः सोमसूर्या ग्निरूपिणः ।।
Verse 9
शिखा तु दीपसंकाशा तस्मिन्नुपरि वर्तते । अर्धमात्रा तथा ज्ञेया प्रणवस्योपरि स्थिता ॥
Verse 10
पद्मसूत्रनिभा सूक्ष्मा शिखा सा दृश्यते परा। सा नाडी सूर्यसंकाशा सूर्यं भित्त्वा तथा परा ॥
Verse 11
द्विसप्ततिसहस्त्राणि नाडीं भित्त्वा च मूर्धनि । वरदः सर्वभूतानां सर्वं व्याप्येव तिष्ठति ॥
Verse 12
कांस्यघण्टानिनादस्तु यथा लीयति शान्तये। ओङ्कारस्तु तथा योज्यः शान्तये सर्वमिच्छता ॥
Verse 13
यस्मिन्विलीयते शब्दस्तत्परं ब्रह्म गीयते । धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते ॥
Verse 14
वायुस्तेजस्थाकाशस्त्रिविधो जीवसंज्ञकः । स जीवः प्राण इत्युक्तो वालाग्रशतकल्पितः ।।
Verse 15
नाभिस्थाने स्थितं विश्व शुद्धतत्त्वं सुनिर्मलम्। आदित्यमिव दीप्यन्तं रश्मिभिश्चखिलं शिवम्॥
Verse 16
सकारं च हकारं च जीवो जपति सर्वदा।नाभिरन्ध्राद्विनिष्क्रान्तं विषयव्याप्तिवर्जितम् ॥
Verse 17
तेनेदं निष्कलं विद्यात्क्षीरात्सर्पिर्यथा तथा ।कारणेनात्मना युक्तः प्राणायामैश्च पञ्चभिः ॥
Verse 18
चतुष्कलासमायुक्तो भ्राम्यते च हृदि स्थितः । गोलकस्तु यदा देहे क्षीरदण्डेन वाऽहतः ॥
Verse 19
एतस्मिन्वसते शीघ्रमविश्रान्तं महाखगः । यावन्निःश्वसितो जीवस्तावन्निष्कलतां गतः ॥
Verse 20
नभस्थं निष्कलं ध्यात्वा मुच्यते भवबन्धनात्। अनाहतध्वनियुतं हंसं यो वेद हृद्गतम् ॥
Verse 21
स्वप्रकाशचिदानन्दं स हंस इति गीयते । रेचकं पूरकं मुक्त्वा कुम्भकेन स्थितः सुधीः ॥
Verse 22
नाभिकन्दे समौ कृत्वा प्राणापानौ समाहितः । मस्तकस्थामृतास्वादं पीत्वा ध्यानेन सादरम्॥
Verse 23
दीपाकारं महादेवं ज्वलन्तं नाभिमध्यमे। अभिषिच्यामृतेनैव हंसहंसेति यो जपेत् ॥
Verse 24
जरामरणरोगादि न तस्य भुवि विद्यते । एवं दिने दिने कुर्यादणिमादिविभूतये ॥
Verse 25
ईश्वरत्वमवाप्नोति सदाभ्यासरतः पुमान्। बहवो नैकमार्गेण प्राप्ता नित्यत्वमागताः ॥
Verse 26
हंसविद्यामृते लोके नास्ति नित्यत्वसाधनम्। यो ददाति महाविद्यां हंसाख्यां पारमेश्वरीम्॥
Verse 27
तस्य दास्यं सदा कुर्यात्प्रज्ञया परया सह। शुभं वाऽशुभमन्यद्वा यदुक्तं गुरुणा भुवि ॥
Verse 28
तत्कुर्यादविचारेण शिष्यः संतोषसंयुतः । हंसविद्यामिमां लब्ध्वा गुरुशुश्रूषया नरः ॥
Verse 29
आत्मानमात्मना साक्षाद्ब्रह्म बुद्धवा सुनिश्चलम्।देहजात्यादिसंबन्धान्वर्णाश्रमसमन्वितान्॥
Verse 30
वेदशास्त्राणि चान्यानि पदपांसुमिव त्यजेत् । गुरुभक्तिं सदा कुर्याच्छ्रेयसे भूयसे नरः ॥
Verse 31
गुरुरेव हरिः साक्षान्नान्य इत्यब्रवीच्छ्रुतिः ॥
Verse 32
श्रुत्या यदुक्तं परमार्थमेव तत्संशयो नात्र ततः समस्तम्।
श्रुत्या विरोधे न भवेत्प्रमाणं भवेदनर्थाय विना प्रमाणम्॥
Verse 33
देहस्थ: सकलो ज्ञेयो निष्कलो देहवर्जितः । आप्तोपदेशगम्योऽसौ सर्वतः समवस्थितः ॥
Verse 34
हंसहंसेति यो ब्रूयादंधसो ब्रह्मा हरिः शिवः। गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् ॥
Verse 35
तिलेषु च यथा तैलं पुष्पे गन्ध इवाश्रितः । पुरुषस्य शरीरेऽस्मिन्स बाह्याभ्यन्तरे तथा ॥
Verse 36
उल्काहस्तो यथालोके द्रव्यमालोक्य तां त्यजेत्।ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥
Verse 37
पुष्पवत्सकलं विद्याद्गन्धस्तस्य तु निष्कलः ।वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कला ॥
Verse 38
निष्कलः सकलो भावः सर्वत्रैव व्यवस्थितः । उपायः सकलस्तद्वदुपेयश्चैव निष्कलः ॥
Verse 39
सकले सकलो भावो निष्कले निष्कलस्तथा। एकमात्र द्विमात्रश्च त्रिमात्रश्चैव भेदतः ॥
Verse 40
अर्धमात्रा परा ज्ञेया तत ऊर्ध्वं परत्परम् । पञ्चधा पञ्चदैवत्यं सकलं परिपठ्यते ॥
Verse 41
ब्रह्मणो हृदयस्थानं कण्ठे विष्णुः समाश्रितः । तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः ।।
Verse 42
नासाग्रे अच्युतं विद्यात्तस्यान्ते तु परं पदम्। परत्वात्तु परं नास्तीत्येवं शास्त्रस्य निर्णयः ॥
Verse 43
देहातीतं तु तं विद्यान्नासाग्रे द्वादशाङ्गुलम्। तदन्तं तं विजानीयात्तत्रस्थो व्यापयेत्प्रभुः ॥
Verse 44
मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् । तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते ।।
Verse 45
एतत्तु परमं गुह्यमेतत्तु परमं शुभम्। नातः परतरं किंचिन्नातः परतरं शुभम् ॥
Verse 46
शुद्धज्ञानामृतं प्राप्य परमाक्षरनिर्णयम् । गुह्याद्ह्यतमं गोप्यं ग्रहणीयं प्रयत्नतः ॥
Verse 47
नापुत्राय प्रदातव्यं नाशिष्याय कदाचन। गुरुदेवाय भक्ताय नित्यं भक्तिपराय च ॥
Verse 48
प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत्। दाताऽस्य नरकं याति सिध्यते न कदाचन ॥
Verse 49
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः । यत्र तत्र स्थितो ज्ञानी परमाक्षरवित्सदा ॥
Verse 50
विषयी विषयासक्तो याति देहान्तरे शुभम्।ज्ञानादेवास्य शास्त्रस्य सर्वावस्थोऽपि मानवः ।।