Upanishad 48 Transliteration
Upanishad 48 Transliteration
चाक्षुषोपनिषद्
3 verses total
Verse 1
ॐ अथातश्चाक्षुषीं पठितसिद्धविद्यां चक्षुरोगहरां व्याख्यास्यामः ।
यच्चक्षूरोगाः सर्वतो नश्यंति ।
चाक्षुषी दीप्तिर्भविष्यतीति । तस्याश्चाक्षुषीविद्याया अहिर्बुध्न्य ऋषिः । गायत्री छन्दः ।
सूर्यो देवता ।
चक्षुरोगनिवृत्तये जपे विनियोगः।
ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव।
मां पाहि पाहि ।
त्वरितं चक्षुरोगान् शमय शमय ।
मम जातरूपं तेजो दर्शय दर्शय।
यथाऽहं अन्धो न स्यां तथा कल्पय कल्पय। कल्याणं कुरु कुरु।
यानि मम पूर्वजन्मोपार्जितानि चक्षुः। प्रतिरोधकदुष्कृतानि सर्वाणि निर्मूलय निर्मूलय।
ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय। ॐ नमः करुणाकरायामृताय।
ॐनमः सूर्याय।
ॐ नमो भगवते सूर्यायाक्षितेजसे नमः। खेचराय नमः ।
महते नमः ।
रजसे नमः ।
तमसे नमः ।
असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय।
मृत्योर्मा अमृतं गमय।
उष्णो भगवाञ्छचिरूपः।
हंसो भगवान् शुचिरप्रतिरूपः ।
य इमां चष्मतीविद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति।
न तस्य कुले अन्धो भवति ।
अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति ॥
Verse 2
ॐ विश्वरूपं घृणिनं जातवेदसं ।
हिरण्मयं पुरुषं ज्योतिरूपं तपन्तम्।
विश्वस्य योनिं प्रतपन्तमुग्रं पुरः प्रजानामुदयत्येष सूर्यः ॥
Verse 3
ॐ नमो भगवते आदित्याय अहोवाहिन्यहोवाहिनी स्वाहा ।
ॐ वयः सुपर्णा उपसेदुरिन्द्र प्रियमेधा ऋषयो नाधमानाः ।
अपध्वान्तमूर्णूहि पूर्द्धि चक्षुर्ममुग्ध्यस्मान्निधयेव बद्धान्। पुण्डरीकाक्षाय नमः ।
पुष्करेक्षणाय नमः ।
अमलेक्षणाय नमः ।
कमलेक्षणाय नमः ।
विश्वरूपाय नमः।
महाविष्णवे नमः ।।