Upanishad 47 Transliteration

Upanishad 47 Transliteration

चतुर्वेदोपनिषद्

8 verses total

Verse 1
ॐ अथातो महोपनिषदमेव तदाहुः । एको ह वै नारायण आसीत्। न ब्रह्मा न ईशानो नापो नाग्निः न वायुः नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यः। स एकाकी नर एव। तस्य ध्यानान्तस्थस्य ललाटात् स्वेदोऽपतत्। ता इमा आपः । ता एते नो हिरण्यमयमन्नम्। तत्र ब्रह्मा चतुर्मुखोऽजायत । स ध्यातपूर्वामुखो भूत्वा भूरिति व्याहृतिः गायत्रं छन्द ऋग्वेदः । पश्चिमामुखो भूत्वा भूरिति व्याहृतिस्त्रैष्टुभं छन्दः यजुर्वेदः । उत्तरामुखो भूत्वा भुवरिति व्याहृतिर्जागतं छन्दः सामवेदः । दक्षिणामुखो भूत्वा जनदिति व्याहृतिरानुष्टुभं छन्दोऽथर्ववेदः ।।
Verse 2
सहस्त्रशीर्ष देवं सहस्त्राक्षं विश्वसंभवम्। विश्वतः परमं नित्यं विश्वं नारायणं हरिम् ॥
Verse 3
विश्वमेवेदं पुरुषं तं विश्वमुपजीवति । ऋषिं विश्वेश्वरं देवं समुद्रे तं विश्वरूपिणम् ॥
Verse 4
पद्मकोशप्रतीकाशं लम्बत्याकोशसन्निभम्। हृदये चाप्यधोमुखं सतस्यत्यैशीत्कराभिश्च ।।
Verse 5
तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः। तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता
Verse 6
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः । स ब्रह्मा स ईशानः सोऽक्षरः परमः स्वरदट्॥
Verse 7
य इमां महोपनिषदं ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो भवति। अनुपनीतः उपनीतो भवति । सोऽग्निपूतो भवति । स वायुपूतो भवति । स सूर्यपूतो भवति । स सोमपूतो भवति । स सत्यपूतो भवति । स सर्वैर्देवैर्ज्ञातो भवति । स सर्वेषु तीर्थेषु स्न्नातो भवति । तेन सर्वैः क्रतुभिरिष्टं भवति। गायत्र्याः षष्टिसहस्त्राणि जप्तानि भवन्ति । इतिहासपुराणानां सहस्त्राणि जप्तानि भवन्ति। प्रणवानामयुतं जप्तं भवति। आचक्षुषः पङ्पक्तिं पुनाति । आसप्तमात् पुरुषं पुनाति । जाप्येन अमृतत्वं च गच्छति अमृतत्वं च गच्छति इत्याह भगवान् हिरण्यगर्भः ॥
Verse 8
देवा ह वै स्वर्ग लोकमायंस्ते देवा रुद्रमपृच्छंस्ते देवा ऊर्ध्वबाह्वो रुद्रं स्तुवन्ति। भूस्त्वादिर्मध्यं भुवस्ते स्वस्ते शीर्ष विश्वरूपोऽसि ब्रह्मौकस्त्वं द्विधा त्रिधा शान्तिस्त्वं हुतमहुतं दत्तमदत्तं सर्वमसर्वं विश्वमविश्वं कृतमकृतं परमपरं परायणं च त्वम्। अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवा नमस्याम धूर्तेरमृतं मृतं मर्त्यं च सोमसूर्यपूर्वजगदधीतं वा यदक्षरं प्राजापत्यं सौम्यं सूक्ष्मं ग्राहं ग्राहेण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण ग्रसति तस्मै महाग्नासाय नमः ॥