Upanishad 51 Transliteration
Upanishad 51 Transliteration
दक्षिणामूर्युपनिषद्
33 verses total
Verse 1
ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरंजीविनमुपसमेत्य पप्रच्छुः केन त्वं चिरं जीवसि केन वानन्दमनुभवसीति ॥
Verse 2
परमरहस्यशिवतत्त्वज्ञानेनेति स होवाच ॥
Verse 3
किं तत्परमरहस्यशिवतत्वज्ञानम् ।
तत्र को देवः ।
के मन्त्राः ।
को जपः ।
का मुद्रा।
का निष्ठा ।
किं तज्ज्ञानसाधनम् ।
कः परिकरः ।
को बलिः ।
कः कालः ।
किं तत्स्थानमिति ॥
Verse 4
स होवाच ।
येन दक्षिणामुखः शिवोऽपरोक्षीकृतो भवति तत्परमरहस्यशिवतत्त्वज्ञानम् ।।
Verse 5
यः सर्वोपरमे काले सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते वा स देवः ।।
Verse 6
अत्रेते मन्त्ररहस्यश्लोका भवन्ति ।
मेधा दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः ।
देवता दक्षिणास्यः । मन्त्रेणाङ्गन्यासः ॥
Verse 7
ॐ आदौ नम उच्चार्य ततो भगवते पदम्। दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत्। अस्मच्छब्दं चतुर्थ्यन्तं मेधा प्रज्ञां पदं वदेत् । प्रमुच्चार्य ततो वायुबीजं च्छं च ततः पठेत् । अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥
Verse 8
ध्यानम्।
स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्यां ज्ञानमुद्रां कराग्रे ।
दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥
Verse 9
मन्त्रेण न्यासः ।
आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् । पाञ्चर्णं तत उद्धत्य अतरं सविसर्गकम् । अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः।।
Verse 10
मुद्रां भद्रार्धदात्रीं सपरशुहरिणं बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगवरसमाबद्ध- कक्ष्यो वटाधः ।
आसीनश्चन्द्रखण्डप्रतिघटित जटाक्षीरगौरस्त्रिनेत्रो दद्यादाद्यः शुकाद्यैर्मुनिभिर- भिवृतो भावशुद्धिं भवो नः ॥
Verse 11
मन्त्रेण न्यासः ब्रह्मर्षिन्यासः-तारं ब्लूं नम उच्चार्य मायां वाग्भवमेव च ।
दक्षिणपदमुच्चार्य ततः स्यान्मूर्तये पदम् ॥
Verse 12
ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत।
मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥
Verse 13
भस्मव्यापाण्डराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमालावीणापुस्तैर्विराजकरकमलधरो योगपट्टाभिरामः ।
व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः सव्याल: कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥
Verse 14
मन्त्रेण न्यासः।
(ब्रह्मर्षिन्यासः )।
तारं परां रमाबीजं वदेत्साम्यशिवाय च।
तुभ्यं चानलजायां च मनुदर्वादशवर्णकः ॥
Verse 15
वीणां करै: पुस्तकमक्षमालां बिभ्राणमभ्राभगलं वराढयम्।
फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः सेव्यं वटाधः कृतनीडमीडे ॥
Verse 16
विष्णु ऋषिरनुष्टुप् छन्दः ।
देवता दक्षिणास्यः ।
मन्त्रेण न्यासः ।
तारं नमो भगवते तुभ्यं वटपदं ततः ।
मृलेति पदमुच्चार्य वासिने पदमुद्धरेत् ॥
Verse 17
वागीशाय ततः पाश्चान्महाज्ञानपदं ततः । दायिने पदमुच्चार्य मायिने नम उद्धरेत्॥
Verse 18
आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोत्तमः ॥
Verse 19
ध्यानम्।
मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्जवलम्। अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं न्यग्रोधान्तनिवासिनं परगुरुं ध्यायाम्यभीष्टाप्तये ॥
Verse 20
मौनमुद्रा।
सोऽहमिति यावदास्थितिः सा निष्ठा भवति ॥
Verse 21
तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम्॥
Verse 22
चित्ते तदेकतानता परिकरः ॥
Verse 23
अड़गचेष्टार्पणं बलिः ॥
Verse 24
त्रीणि प्रामानि कालः ॥
Verse 25
द्वादशान्तपदं स्थानमिति ॥
Verse 26
ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः ।
कथं वाऽस्योदयः ।
किं स्वरूपम्। को वाऽस्योपासक इति ॥
Verse 27
स होवाच ।
वैराग्यतैलसंपूर्णे भक्तिवर्तिसमन्विते । प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत्॥
Verse 28
मोहान्धकारे नि:सारे उदेति स्वयमेव हि । वैराग्यमरणिं कृत्वा ज्ञानं कृत्वा तु चित्रगुम् ॥
Verse 29
गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत्। मोहभानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् ॥
Verse 30
तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् । उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ।।
Verse 31
शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम्।
दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥
Verse 32
सर्गादिकाले भगवान्विरिञ्चिरुपास्यैनं सर्गसामर्थ्यमाप्य।
तुतोष चित्ते वाञ्छितार्थाश्च लब्ध्वा धन्यः सोऽस्योपासको भवति धाता ॥
Verse 33
य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति ।
य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥