Upanishad 53 Transliteration
Upanishad 53 Transliteration
ध्यानबिन्दूपनिषद्
120 verses total— Showing 1–50
Verse 1
यदि शैलसमं पापं विस्तीर्ण बहुयोजनम्। भिद्यते ध्यानयोगेन नान्यो भेदः कदाचन ॥
Verse 2
बीजाक्षरं परं बिन्दु नादं तस्योपरि स्थितम् । सशब्दं चाक्षरे क्षीणे नि:शब्दं परमं पदम्॥
Verse 3
अनाहतं तु यच्छब्दं तस्य शब्दस्य यत्परम् । तत्परं विन्दते यस्तु स योगी छिन्नसंशयः ।।
Verse 4
वालाग्रशतसहस्त्रं तस्य भागस्य भागिनः। तस्य भागस्य भागार्धं तत्क्षये तु निरञ्जनम्॥
Verse 5
पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम्। तिलमध्ये यथा तैलं पाषाणेष्विव काञ्चनम्॥
Verse 6
एवं सर्वाणि भूतानि मणौ सूत्र इवात्मनि । स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः।।
Verse 7
तिलानां तु यथा तैलं पुष्पे गन्ध इवाश्रितः । पुरुषस्य शरीरे तु स बाह्याभ्यन्तरे स्थितः ॥
Verse 8
वृक्षं तु सकलं विद्याच्छाया तस्यैव निष्कला।
सकले निष्कले भावे सर्वत्रात्मा व्यवस्थितः।।
Verse 9
ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षुभिः । पृथिव्यग्निश्च ऋग्वेदो भूरित्येव पितामहः ॥
Verse 10
अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके। अन्तरिक्षं यजुर्वायुर्भुवो विष्णुर्जनार्दनः ॥
Verse 11
उकारे तु लयं प्राप्ते द्वितीये प्रणवांशके। द्यौः सूर्यः सामवेदश्च स्वरित्येव महेश्वरः ॥
Verse 12
मकारे तु लयं प्राप्ते तृतीये प्रणवांशके। अकारः पीतवर्णः स्याद्रजोगुण उदीरितः ॥
Verse 13
उकारः सात्त्विकः शुक्लो मकारः कृष्णातामसः ।
अष्टाङ्गं च चतुष्पादं त्रिस्थानं पश्चदैवतम् ॥
Verse 14
ओंकारं यो न जानाति ब्राह्मणो न भवेत्तु सः। प्रणव धनुः शरो ह्यात्मा ब्रह्मतल्लक्ष्यमुच्यते ॥
Verse 15
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् । निवर्तन्ते क्रियाः सर्वास्तस्मिन्दृष्टे परावरे ॥
Verse 16
ओंकारप्रभवा देवा ओंकारप्रभवाः स्वराः । ओंकारप्रभवं सर्वं त्रैलोक्यं सचराचरम्॥
Verse 17
ह्रस्वो दहति पापानि दीर्घः संपत्प्रदोऽव्ययः । अर्धमात्रासमायुक्तः प्रणवो मोक्षदायकः॥
Verse 18
तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित्॥
Verse 19
हृत्पद्मकर्णिकामध्ये स्थिरदीपनिभाकृतिम् । अङ्गुष्ठमात्रमचलं ध्यायेदोंकारमीश्वरम् ॥
Verse 20
इडया वायुमापूर्य पूरयित्वोदरस्थितम्। ओंकारं देहमध्यस्थं ध्यायेज्ज्वालावलीवृतम् ॥
Verse 21
ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक उच्यते।
रेचो रुद्र इति प्रोक्तः प्राणायामस्य देवताः ।।
Verse 22
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम्। ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥
Verse 23
ओंकारध्वनिनादेन वायोः संहरणान्तिकम् यावद्वलं समादध्यात्सम्यनादलयावधि ॥
Verse 24
गमागमस्थं गमनादिशून्यमोंकारमेकं रविकोटिदीप्तम्।
पश्यन्ति ये सर्वजनान्तरस्थं हंसात्मकं ते विरजा भवन्ति ॥
Verse 25
यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् ।
तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥
Verse 26
अष्टपत्रं तु हृत्पद्यं द्वात्रिंशत्केसरान्वितम्।
तस्य मध्ये स्थितो भानुर्भानुमध्यगतः शशी ॥
Verse 27
शशिमध्यगतो वह्निर्वह्निमध्यगता प्रभा।
प्रभामध्यगतं पीठं नानारत्नप्रवेष्टितम् ॥
Verse 28
तस्य मध्यगतं देवं वासुदेवं निरञ्जनम्।
श्रीवत्सकौस्तुभोरस्कं मुक्तामणिविभूषितम् ॥
Verse 29
शुद्धस्फटिकसंकाशं चन्द्रकोटिसमप्रभम् । एवं ध्यायेन्महाविष्णुमेवं वा विनयान्वितः ॥
Verse 30
अतसीपुष्पसंकाशं नाभिस्थाने प्रतिष्ठितम्। चतुर्भुजं महाविष्णु पूरकेण विचिन्तयेत् ॥
Verse 31
कुम्भकेन हृदि स्थाने चिन्तयेत्कमलासनम्।
ब्रह्माणं रक्तगौराभं चतुर्वक्त्रं पितामहम्॥
Verse 32
रेचकेन तु विद्यात्मा ललाटस्थं त्रिलोचनम्। शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् ।।
Verse 33
अब्जपत्रमधः पुष्पमूर्खनालमधोमुखम् । कदलीपुष्पसंकाशं सर्ववेदमयं शिवम् ॥
Verse 34
शतारं शतपत्राढ्यं विकीर्णाम्बुजकर्णिकम् । तत्रार्कचन्द्रवह्नीनामुपर्युपरि चिन्तयेत् ॥
Verse 35
पद्मस्योद्घाटनं कृत्वा बोधचन्द्राग्निसूर्यकम्।
तस्य हृद्धीजमाहृत्य आत्मानं चरते ध्रुवम् ॥
Verse 36
त्रिस्थानं च त्रिमार्गं च त्रिब्रह्म च त्रयाक्षरम्। त्रिमात्रमर्धमात्रं वा यस्तं वेद स वेदवित् ॥
Verse 37
तैलधारामिवाच्छिन्नदीर्घघण्टानिनादवत् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥
Verse 38
यथैवोत्पलनालेन तोयमाकर्षयेन्नरः । तथैवोत्कर्षयेद्वायुं योगी योगपथे स्थितः ॥
Verse 39
अर्धमात्रात्मकं कृत्वा कोशभूतं तु पङ्कजम्। कर्षयेन्नालमात्रेण भ्रुवोर्मध्ये लयं नयेत्॥
Verse 40
भ्रुवोर्मध्ये ललाटे तु नासिकायास्तु मूलतः । जानीयादमृतं स्थानं तद्ब्रह्मायतनं महत्॥
Verse 41
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा। ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥
Verse 42
आसनानि च तावन्ति यावन्त्यो जीवजातयः ।
एतेषामतुलान्भेदान्विजानाति महेश्वरः ॥
Verse 43
सिद्ध भद्रं तथा सिंहं पद्यम चेति चतुष्टयम्।
आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्॥
Verse 44
योनिस्थानं तयोर्मध्ये कामरूपं निगद्यते ।
आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् ॥
Verse 45
तन्मध्ये प्रोच्यते योनिःकामाख्या सिद्धवन्दिता।
योनिमध्ये स्थितं लिङ्ग पश्चिमाभिमुखं तथा ।।
Verse 46
मस्तके मणिवद्भिन्नं यो जानाति स योगवित्।
तप्तचामीकराकारं तडिल्लेखेव विस्फुरत् ॥
Verse 47
चतुरस्त्रमुपर्यग्नेरधो मेढ्रात्प्रतिष्ठितम् । स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयम् ॥
Verse 48
स्वाधिष्ठानं ततश्चक्रं मेढ्रमेव निगद्यते । मणिवत्तन्तुना यत्र वायुना पूरितं वपुः ॥
Verse 49
तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम्। द्वादशारमहाचक्रे पुण्यपापनियन्त्रितः ॥
Verse 50
तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति । ऊर्ध्वं मेढ्रादधो नाभेः कन्दो योऽस्ति खगाण्डवत्।।