Upanishad 46 Transliteration
Upanishad 46 Transliteration
गोपालपूर्वतापिन्युपनिषद्
49 verses total
Verse 1
कृषिर्भवाचकः शब्दो नश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकर्मणे।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे॥
Verse 2
मुनयो ह वै ब्राह्मणमूचुः ।
कः परमो देवः ।
कुतो मृत्युर्बिभेति ।
कस्य विज्ञानेनाखिलं विज्ञातं भवति।
केनेदं विश्वं संसरतीति ॥
Verse 3
तदु होवाच ब्राह्मणः ।
कृष्णो वै परमं दैवतम्।
गोविन्दान्मृत्युर्बिभेति ।
गोपीजनवल्लभ-ज्ञानेनैतद्विज्ञातं भवति ।
स्वाहेदं विश्वं संसरतीति ॥
Verse 4
तद् होचुः ।
कः कृष्णः ।
गोविन्दश्च कोऽसाविति।
गोपीजनवल्लभश्च कः ।
का स्वाहेति ॥
Verse 5
तानुवाच ब्राह्मणः ।
पापकर्षणो गोभूमिवेदविदितो गोपीजनविद्याकलापीप्रेरकः ।
तन्माया चेति सकलं परं ब्रह्मैव तत्।
यो ध्यायति रसति भजति सोऽमृतो भवतीति ॥
Verse 6
ते होचुः किं तद्रूपं कि रसनं किमाहो तद्भजनं तत्सर्वं विविदिषतामाख्याहीति ॥
Verse 7
तदु होवाच हैरण्यो गोपवेषमभ्राभं तरुणं कल्पद्रुमाश्रितम् ॥
Verse 8
तदिह श्लोका भवन्ति–सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम्।
द्विभुजं ज्ञानमुद्राढयं वनमालिनमीश्वरम् ॥
Verse 9
गोपगोपाङ्गनावीतं सुरद्रुमतलाश्रितम्। दिव्यालंकरणोपेतं रत्नपङ्कजमध्यगम्॥
Verse 10
कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम्।
चिन्तयंशचेतसा कृष्णं मुक्तो भवति संसृतेः ॥
Verse 11
तस्य पुना रसनमिति जलभूमीन्दुसंपातः कामादिकृष्णायेत्येकं पदम्।
गोविन्दायेति द्वितीयम्।
गोपीजनेति तृतीयम्।
वल्लभायेति तुरीयम्।
स्वाहेति पञ्चममिति ॥
Verse 12
पञ्चपदं जपन्पश्क्जञ्चाङ्ग द्यावाभूमिसूर्याचन्द्रमसौ साग्नी तद्रूपतया ब्रह्म संपद्यते ब्रह्म संपद्यत इति।।
Verse 13
तदेष श्लोकः- क्लीमित्येतदादावादाय कृष्णाय गोविन्दाय गोपीजनवल्लभायेति बृहन्भानव्या सकृदुच्चरेद्योऽसौ गतिस्तस्यास्ति मङ्क्षु नान्या गतिः स्यादिति ॥
Verse 14
भक्तिरस्य भजनम्। तदिहामुत्रोपाधिनैराश्येनामुष्मिन्मनः कल्पनम् । एतदेव च नैष्कर्म्यम्॥
Verse 15
कृष्णं तं विप्रा बहुधा यजन्ति गोविन्दं सन्तं बहुधाऽऽराधयन्ति।
गोपीजनवल्लभो भुवनानि दधे स्वाहाश्रितो जगदैजत्सुरेताः ॥
Verse 16
वायुर्यथैको भुवनं प्रविष्टो जन्येजन्ये पञ्चरूपो बभूव। कृष्णस्तथैकोऽपि जगद्धितार्थं शब्देनासौ पञ्चपदो विभातीति ॥
Verse 17
ते होचुरुपासनमेतस्य परमात्मनो गोविन्दस्याखिलाधारिणो ब्रूहीति ॥
Verse 18
तानुवाच यत्तस्य पीठं हैरण्यापलाशमम्बुजं तदन्तरालिकानलास्त्रयुगं तदन्तरालाद्यर्णा-खिलबीजं कृष्णाय नम इति बीजाढ्यं स ब्रह्माणमादायानङ्गगायत्रीं यथावद्वयालिख्य भूमण्डलं शूलवेष्टितं कृत्वाङ्गवासुदेवादिरुक्मिण्यादिस्वशक्तीन्द्रादिवसुदेवादिपार्थादिनिध्यावीतं यजेत्संध्यासु प्रतिपत्तिभिरुषचारैः।
तेनास्याखिलं भवत्यखिलं भवतीति ॥
Verse 19
तदिह श्लोका भवन्ति–एको वशी सर्वगः कृष्ण ईड्य एकोऽपि सन्बहुधा यो विभाति।
तं पीठगं येऽनुभजन्ति धीरास्तेषां सिद्धिः शाश्वती नेतरेषाम् ॥
Verse 20
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्।
तं पीठगं येऽनुभजन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥
Verse 21
एतद्विष्णोः परमं पदं ये नित्योद्युक्तास्तं यजन्ति न कामात्।
तेषामसौ गोपरूपः प्रयत्नात्प्रकाशयेद्वात्मपदं तदेव ॥
Verse 22
यो ब्रह्माणं विदधाति पूर्वं यो विद्यां तस्मै गोपायति स्म कृष्णः।
तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुः शरणं व्रजेत् ॥
Verse 23
ओङ्कारेणान्तरितं ये जपन्ति गोविन्दस्य पञ्चपदं मनुम्।
तेषामसौ दर्शयेदात्मरूपं तस्मान्मु-मुक्षुरभ्यसेन्नित्यशान्त्यै।।
Verse 24
एतस्मा एव पञ्चपदादभूवन्गोविन्दस्य मनवो मानवानाम्।
दशार्णाद्यास्तेऽपि संक्रन्दनाद्यैरभ्यस्यन्ते भूतिकामैर्यथावत्।।
Verse 25
ते पप्रच्छुस्तदु होवाच ब्रह्मसदनं चरतो मे ध्यातः स्तुतः परमेश्वरः परार्धान्ते सोऽबुध्यत ।
गोपवेषो मे पुरुषः पुरस्तादाविर्बभूव।
ततः प्रणतो मयानुकूलेन हृदा मह्यमष्टादशार्णस्वरूपं सृष्टये दत्त्वान्तर्हितः ।
पुनस्ते सिसृक्षतो मे प्रादुरभूत्तेष्वक्षरेषु विभज्य भविष्यज्जगद्रूपं प्रकाशयन्।
तदिह कादापो लात्पृथिवीतोऽग्निर्बिन्दोरिन्दुस्तसंपातात्तदर्क इति क्लींकारादसृजं कृष्णादाकाशं खाद्वायुरुत्तरात्सुरभिविद्याः प्रादुरकार्षमकार्षमिति। तदुत्तरात्स्त्रीपुंसादिभेदं सकलमिदं सकलमिदमिति ।।
Verse 26
एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदयति। ओंकारालिकं मनुमावर्तयेत्। सङ्गरहितोऽभ्यानत्।।
Verse 27
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम्॥
Verse 28
तस्मादेनं नित्यमावर्तयेन्नित्यमावर्तयेदिति ॥
Verse 29
तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाज्जलं तृतीयपदात्तेजश्चतुर्थपदाद्वायुश्चरमपदा-द्वयोमेति । वैष्णवं पञ्चव्याहृतिमयं मन्त्रं कृष्णावभासकं कैवल्यस्य सृत्यै सततमावर्तयेत्सततमाव-र्तयेदिति ॥
Verse 30
तदत्र गाथा:- यस्य चाद्यपदाद्भूमिर्द्वितीयात्सलिलोद्भवः।
तृतीयात्तेज उद्भूतं चतुर्थाद्रन्धवाहनः ॥
Verse 31
पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् । चन्द्रध्वजोऽगमद्विष्णोः परमं पदमव्ययम्॥
Verse 32
ततो विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम्।
यत्तत्पदं पञ्चपदं तदेव स वासुदेवो न यतोऽन्यदस्ति ।।
Verse 33
तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्चपदं वृन्दावनसुरभूरुहतलासीनं सततं समरुद्गणोऽहं परमया स्तुत्या तोषयामि॥
Verse 34
ॐ नमो विश्वस्वरूपाय विश्वस्थित्यन्तहेतवे। विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ।।
Verse 35
नमो विज्ञानरूपाय परमानन्दरूपिणे।
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः ॥
Verse 36
नमः कमलनेत्राय नमः कमलमालिने ।
नमः कमलनाभाय कमलापतये नमः ।।
Verse 37
बर्हापीडाभिरामाय रामायाकुण्ठमेधसे ।
रमामानसहंसाय गोविन्दाय नमो नमः ॥
Verse 38
कंसवंशविनाशाय केशिचाणूरघातिने। वृषभध्वजवन्द्याय पार्थसारथये नमः ॥
Verse 39
वेणुवादनशीलाय गोपालायाहिमर्दिने। कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥
Verse 40
वल्लवीवदनाम्भोजमालिने नृत्तशालिने ।
नमः प्रणतपालाय श्रीकृष्णाय नमो नमः ॥
Verse 41
नमः पापप्रणाशाय गोवर्धनधराय च। पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥
Verse 42
निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे। अद्वितीयाय महते श्रीकृष्णाय नमो नमः ॥
Verse 43
प्रसीद परमानन्द प्रसीद परमेश्वर। आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो।।
Verse 44
श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर।
संसारसागरे मग्नं मामुद्धर जगद्गुरो॥
Verse 45
केशव क्लेशहरण नारायण जनार्दन।
गोविन्द परमानन्द मां समुद्धर माधव ॥
Verse 46
अथैवं स्तुतिभिराराधयामि तथा यूयं पञ्चपदं जपन्तः श्रीकृष्णं ध्यायन्तः संसृति तरिष्यथेति होवाच हैरण्यगर्भः ॥
Verse 47
अमुं पञ्चपदं मन्त्रमावर्तयेद्यः स यात्यनायासतः केवलं तत्पदं तत्॥
Verse 48
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षदिति ॥
Verse 49
तस्मात्कृष्ण एव परमो देवस्तं ध्यायेत् तं रसयेत् तं भजेत् तं भजेदियों तत्सदित्युपनिषत् ॥