Upanishad 37 Transliteration
Upanishad 37 Transliteration
हंसोपनिषद्
21 verses total
Verse 1
गौतम उवाच-भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद। ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते ॥
Verse 2
सनत्कुमार उवाच-विचार्य सर्वधर्मेषु मतं ज्ञात्वा पिनाकिनः।
पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम॥
Verse 3
अनाख्येयमिदं गुह्यं योगिने कोशसंनिभम्।हंसस्याकृतिविस्तारं भुक्तिमुक्तिफलप्रदम् ॥
Verse 4
अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः।
ब्रह्मचारिणे शान्ताय दान्ताय गुरुभक्ताय । हंसहंसेति सदा ध्यायन्॥
Verse 5
सर्वेषु देहेषु व्याप्तो वर्तते । यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा मृत्युमत्येति ॥
Verse 6
गुदमवष्टभ्याधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरकं गत्वा अनाहतमतिक्रम्य विशुद्धौ प्राणान्निरुध्याज्ञामनुध्यायन्ब्रह्मरन्धं ध्यायन् त्रिमात्रोऽहमित्येव सर्वदा पश्यत्यनाकारश्च भवति ॥
Verse 7
एषोऽसौ परमहंसो भानुकोटिप्रतीकाशो येनेदं सर्वं व्याप्तम् ॥
Verse 8
तस्याष्टधा वृत्तिर्भवति। पूर्वदले पुण्ये मतिः। आग्नेये निद्रालस्यादयो भवन्ति । याम्ये क्रौर्ये मतिः। नैर्ऋते पापे मनीषा। वारुण्यां क्रीडा।वायव्यां गमनादौ बुद्धिः ।सौम्ये रतिप्रीतिः। ईशान्ये द्रव्यादानम्। मध्ये वैराग्यम्। केसरे जाग्रदवस्था। कर्णिकायां स्वप्नम्। लिङ्गे सुषुप्तिः। पद्मत्यागे तुरीयम्। यदा हंसे नादो विलीनो भवति तत् तुरीयातीतम्॥
Verse 9
अथो नाद आधाराद्ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसंकाशः । स वै ब्रह्म परमात्मेत्युच्यते ॥
Verse 10
अथ हंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता।
हमिति बीजम् । स इति शक्तिः। सोऽमिति कीलकम्॥
Verse 11
षट्संख्यया अहोरात्रयोरेकविंशतिसहस्त्राणि षट्शतान्यधिकानि भवन्ति।सूर्याय सोमाय निरञ्जनाय निराभासायातनुसूक्ष्म प्रचोदयादिति ॥
Verse 12
अग्नीषोमाभ्यां वौषद् हृदयाह्यङ्गन्यासकरन्यासौ भवतः ॥
Verse 13
एवं कृत्वा हृदयेऽष्टदले हंसात्मानं ध्यायेत् ॥
Verse 14
अग्नीषोमौ पक्षावोंकारः शिर उकारो बिन्दु स्त्रिणेत्रं मुखं रुद्रो रुद्राणी चरणौ। द्विविधं कण्ठतः कुर्यादित्युन्मनाः अजपोपसंहार इत्यभिधीयते ॥
Verse 15
एवं हंसवशात्तस्मान्मनो विचार्यते ॥
Verse 16
अस्यैव जपकोट्यां नादमनुभवति एवं सर्वं हंसवशान्नादो दशविधो जायते । चिणीति प्रथमः । चिञ्चिणीति द्वितीयः। घण्टानादस्तृतीयः । शङ्खनादश्चतुर्थम्। पञ्चमस्तन्वीनादः । षष्ठस्तालनादः । सप्तमो वेणुनादः। अष्टमो मृदङ्गनादः। नवमो भेरीनादः। दशमो मेघनादः ॥
Verse 17
नवमं परित्यज्य दशममेवाभ्यसेत् ॥
Verse 18
प्रथमे चिञ्चिणीगात्रं द्वितीये गात्रभञ्जनम्। तृतीये खेदनं याति चतुर्थे कम्पते शिरः ॥
Verse 19
पञ्चमे स्त्रवते तालु षष्ठेऽमृतनिषेवणम्। सप्तमे गूढविज्ञानं परा वाचा तथाऽष्टमे ॥
Verse 20
अदृश्यं नवमे देहं दिव्यं चक्षुस्तथाऽमलम्। दशमं परमं ब्रह्म भवेद्ब्रह्मात्मसंनिधौ ॥
Verse 21
तस्मिन्मनो विलीयते मनसि संकल्पविकल्पे दग्धं पुण्यपापे सदाशिवः शक्त्यात्मा सर्वत्रावस्थितः स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति वेदानुवचनं भवतीत्युपनिषत् ॥