Upanishad 12 Transliteration

Upanishad 12 Transliteration

जाबाल्युपनिषद्

23 verses total

Verse 1
अथ हैनं भगवन्त जाबालिं पैप्पलादिः पप्रच्छ भगवन्मे ब्रूहि परमतत्त्वरहस्यम्॥
Verse 2
किं तत्त्वं को जीवः कः पशुः क ईशः को मोक्षोपाय इति ॥
Verse 3
स तं होवाच साधु पृष्टं सर्वं निवेदयामि यथाज्ञातमिति ॥
Verse 4
पुनः स तमुवाच कुतस्त्वया ज्ञातमिति ॥
Verse 5
पुनः स तमुवाच षडाननादिति ॥
Verse 6
पुनः स तमुवाच तेनाथ कुतो ज्ञातमिति॥
Verse 7
पुनः स तमुवाच तेनेशानादिति ॥
Verse 8
पुनः स तमुवाच कथं तस्मात्तेन ज्ञातमिति॥
Verse 9
पुनः स तमुवाच तदुपासनादिति ॥
Verse 10
पुनः स तमुवाच भगवन्कृपया मे सरहस्यं सर्वं निवेदयेति ॥
Verse 11
स तेन पृष्टः सर्वं निवेदयामास तत्त्वम्। पशुपतिरहंकाराविष्टःसंसारी जीवः स एव पशुः । सर्वज्ञः पञ्चकृत्यसंपन्नः सर्वेश्वर ईशः पशुपतिः॥
Verse 12
के पशव इति पुनःस तमुवाच॥
Verse 13
जीवाः पशव उक्ताः। तत्पतित्वात्पशुपतिः॥
Verse 14
स पुनस्तं होवाच कथं जीवाः पशव इति। कथं तत्पतिरिति ।।
Verse 15
स तमुवाच यथा तृणाशिनो विवेकहीनाः परप्रेष्याः कृष्यादिकर्मसु नियुक्ताः सकलदुःखसहाः स्वस्वामिबध्यमाना गवादयः पशवः। यथा तत्स्वामिन इव सर्वज्ञ ईशः पशुपतिः॥
Verse 16
तज्ज्ञानं केनोपायेन जायते ॥
Verse 17
पुनः स तमुवाच विभूतिधारणादेव॥
Verse 18
तत्प्रकारः कथमिति। कुत्र कुत्र धार्यम् ॥
Verse 19
पुनः स तमुवाच सद्योजातादिपञ्चब्रह्ममन्त्रैर्भस्म संगृह्याग्निरिति भस्मेत्यनेनाभिमन्त्र्य मानस्तोक इति समुद्धत्य जलेन संसृज्य त्र्यायुषमिति शिरोललाटवक्षःस्कन्धेष्विति तिसृभित्र्यायुषैस्त्र्यम्बकैस्तिस्त्रो रेखाः प्रकुर्वीत। व्रतमेतच्छाम्भवं सर्वेषु वेदेषु वेदवादिभिरुक्तं भवति। तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय॥
Verse 20
अथ सनत्कुमारः प्रमाणं पृच्छति । त्रिपुण्ड्रधारणस्य त्रिधा रेखा आललाटादाचक्षुषोराभ्रुवोर्मध्यतश्च॥
Verse 21
याऽस्य प्रथमा रेखा सा गार्हपत्यश्चाकारो रजो भूर्लोकः स्वात्मा क्रियाशक्तिः ऋग्वेदः प्रातःसवनं प्रजापतिर्देवो देवतेति। याऽस्य द्वितीया रेखा सा दक्षिणाग्निरुकारः सत्त्वमन्तरिक्षमन्तरात्मा चेच्छाशक्तिर्यजुर्वेदो माध्यन्दिनसवनं विष्णुर्देवो देवतेति। याऽस्य तृतीया रेखा साऽऽहवनीयो मकारस्तमो द्यौर्लोकः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनं महादेवो देवतेति ॥
Verse 22
त्रिपुण्ड्रं भस्मना करोति यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स महापातको-पपातकेभ्यः पूतो भवति । स सर्वान् वेदानधीतो भवति। स सर्वान्देवान्ध्यातो भवति। स सर्वेषु तीर्थेषु स्नातो भवति।स सकलरुद्रमन्त्रजापी भवति। न स पुनरावर्तते न स पुनरावर्तते॥ इति ॥
Verse 23
ॐ सत्यमित्युपनिषत् ॥