Upanishad 40 Transliteration
Upanishad 40 Transliteration
कलिसंतरणोपनिषद्
3 verses total
Verse 1
द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां पर्यटन्कलिं संतरेयमिति।
स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तच्छृणु येन कलिसंसारं तरिष्यसि।
भगवत आदिपुरुषस्य नारायणस्य नामोच्चारणमात्रेण निर्धूतकलिर्भवति ।।
Verse 2
नारदः पुनः पप्रच्छ तन्नाम किमिति । स होवाच हिरण्यगर्भः।
हरे राम हरे राम राम राम हरे हरे।
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे।
इति षोडशकं नाम्नां कलिकल्मषनाशनम्।
नातः परतरोपायः सर्ववेदेषु दृश्यते ।
इति षोडशकलावृतस्य जीवस्यावरणविनाशनम् ।
ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवेति ।।
Verse 3
पुनर्नारदः पप्रच्छ भगवन्कोऽस्य विधिरिति ।
तं होवाच नास्य विधिरिति ।
सर्वदा।
शुचिरशुचिर्वा पठन्ब्राह्मण: सलोकतां समीपतां सरूपतां सायुज्यतामेति ।
यदास्य षोडशीकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति।
तरति वीरहत्याम्।
स्वर्णस्तेयात्पूतो भवति ।
पितृदेवमनुष्याणामपकारात्पूतो भवति । सर्वधर्मपरित्यागपापात्सद्यः शुचितामाप्नुयात् सद्यो| मुच्यते सद्यो मुच्यत इत्युपनिषत् ।।