Upanishad 8 Transliteration

Upanishad 8 Transliteration

कठरुद्रोपनिषद्

47 verses total

Verse 1
देवा ह वै भगवन्तमब्रुवन्नधीहि भगवन्ब्रह्मविद्याम्। स प्रजापतिरब्रवीत् ॥
Verse 2
सशिखान्केशान्निष्कृष्य विसृज्य यज्ञोपवीतं निष्कृष्य ततः पुत्रं दृष्ट्वा त्वं ब्रह्मा त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारस्त्वं स्वाहा त्वं स्वधा त्वं धाता त्वं विधाता। अथ पुत्रो वदत्यहं ब्रह्माहं यज्ञोऽहं वषट्कारोऽहमोंकारोऽहं स्वाहाहं स्वधाहं धाताहं विधाताहं त्वष्टाहं प्रतिष्ठास्मीति । तान्येतान्यनुव्रजन्नाश्रुमापातयेत्।यदश्रुमापातयेत्प्रजां विच्छिन्द्यात्। प्रदक्षिणमावृत्त्यैतच्यैतच्या-नवेक्षमाणाः प्रत्यायन्ति। स स्वर्ग्यो भवति ॥
Verse 3
ब्रह्मचारी वेदमधीत्य वेदोक्ताचरितब्रह्मचर्यो दारानाहृत्य पुत्रानुत्पाद्य ताननुरूपो पाधिभिर्वितत्येष्ट्वा च शक्तितो यज्ञैस्तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैश्च ।सोऽरण्यं परेत्य द्वादशरात्रं पयसाग्निहोत्रं जुहुयात्।द्वादशरात्रं पयोभक्षः स्यात्।द्वादशरात्रस्यान्ते-ऽग्नये वैश्वानराय प्रजापतये च प्राजापत्यं च वैष्णवं त्रिकपालमग्निम्। संस्थितानि पूर्वाणि दारुपात्राण्यग्नौ जुहुयात्। मृण्मयान्यप्सु जुहुयात्। तैजसानि गुरवे दद्यात्। मा त्वं मामपहाय परागाः । नाहं त्वामपहाय परागामिति। गार्हपत्यदक्षिणाग्न्याहवनीयेष्वरणिदेशाद्भस्ममुष्टिं पिबेदित्येके। सशिखान्केशान्निष्कृष्य विसृज्य यज्ञोपवीतं भूः स्वाहेत्यप्सु जुहुयात्। अत ऊर्ध्वमनशनमपां प्रवेशमग्रिप्रवेशनं वीराध्वानं महाप्रस्थानं वृद्धाश्रमं वा गच्छेत्। पयसा यं प्राश्नीयात्सोऽस्य सायंहोमः। यत्प्रातः सोऽयं प्रातः । यद्दशैं तद्दर्शम्। यत्पौर्णमास्ये तत्पौर्णमास्यम्। यद्वसन्ते केशश्मश्रुलोमनखानि वापयेत्सोऽस्याग्निष्टोमः ॥
Verse 4
संन्यस्याग्निं न पुनरावर्तयेन्मृत्युर्जयमावहमित्यध्यात्ममन्त्राञ्जपेत्। स्वस्ति सर्वजीवेभ्य इत्युक्त्वाऽऽत्मानमनन्यं ध्यायन् तदूर्ध्वबाहुर्विमुक्तमार्गों भवेत्। अनिकेतश्चरेत्। भिक्षाशी यत्किंचिन्नाद्यात् । लवैकं न धावयेज्जन्तुसंरक्षणार्थं वर्षवर्जमिति । तदपि श्लोका भवन्ति ।।
Verse 5
कुण्डिकां चमसं शिक्यं त्रिविष्टपमुपानहौ। शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥
Verse 6
पवित्रं स्नानशाटीं च उत्तरासङ्गमेव च। यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः ॥
Verse 7
स्नानं पार्न तथा शौचमद्भिः पूताभिराचरेत्। नदीपुलिनशायी स्याद्देवागारेषु वा स्वपेत् ॥
Verse 8
नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत्। स्तूयमानो न तुष्येत निन्दितो न शपेत्परान् ॥
Verse 9
ब्रह्मचर्येण संतिष्ठेदप्रमादेन मस्करी। दर्शनं स्पर्शनं केलिः कीर्तनं गुह्यभाषणम्॥
Verse 10
संकल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च। एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥
Verse 11
विपरीतं ब्रह्मचर्यमनुष्ठेयं मुमुक्षुभिः । यज्जगद्धासकं भानं नित्यं भाति स्वतः स्फुरत् ॥
Verse 12
स एष जगतः साक्षी सर्वात्मा विमलाकृतिः । प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः ॥
Verse 13
न कर्मणा न प्रजया न चान्येनापि केनचित्। ब्रह्मवेदनमात्रेण ब्रह्माप्नोत्येव मानवः ।।
Verse 14
तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वयम्। सारे च गुहावाच्ये मायाज्ञानादिसंज्ञिके ॥
Verse 15
निहितं ब्रह्म यो वेद परमे व्योग्नि संज्ञिते । सोऽश्नुते सकलान्कामान्क्रमेणैव द्विजोत्तमः ॥
Verse 16
प्रत्यगात्मानमज्ञानमायाशक्तेश्च साक्षिणम्।एकं ब्रह्माहमस्मीति ब्रह्मैव भवति स्वयम्॥
Verse 17
ब्रह्मभूतात्मनस्तस्मादेतस्माच्छक्तिमिश्रितात्।अपञ्चीकृत आकाशः संभूतो रज्जुसर्पवत्॥
Verse 18
आकाशाद्वायुसंज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः ।वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा ॥
Verse 19
तानि सर्वाणि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा। तेभ्य एव विसृष्टं तद्ब्रह्माण्डादि शिवेन ह॥
Verse 20
ब्रह्माण्डस्योदरे देवा दानवा यक्षकिन्नराः। मनुष्याः पशुपक्ष्याद्यास्तत्तत्कर्मानुसारतः ॥
Verse 21
अस्थिस्न्नाय्वादिरूपोऽयं शरीरं भाति देहिनाम्। योऽयमन्त्रमयो ह्यात्मा भाति सर्वशरीरिणः ॥
Verse 22
ततः प्राणमयो यात्मा विभिन्नश्चान्तरस्थितः । ततो मनोमयो ह्यात्मा विभिन्न श्चान्तरस्थितः ॥
Verse 23
ततो विज्ञान आत्मा तु ततोऽन्यश्चान्तरः स्वतः।आनन्दमय आत्मा तु ततोऽन्यश्चान्तरस्थितः ॥
Verse 24
योऽयमन्त्रमयः सोऽयं पूर्णः प्राणमयेन तु । मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः ॥
Verse 25
तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु। आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखम्॥
Verse 26
तथानन्दमय श्चापि ब्रह्मणोऽन्येन साक्षिणा। सर्वान्तरेण पूर्णश्च ब्रह्म नान्येन केनचित्॥
Verse 27
यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानाद्वयात्मकम् । सारमेव रसं लब्ध्वा साक्षाद्देही सनातनम् ॥
Verse 28
सुखी भवति सर्वत्र अन्यथा सुखिता कुतः। असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम्॥
Verse 29
को जीवति नरो जातु को वा नित्यं विचेष्टते । तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः ॥
Verse 30
आनन्दयति दु:खाढयं जीवात्मानं सदा जनः । यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे ॥
Verse 31
निर्भेदं परमाद्वैतं विन्दते च महायतिः । तदेवाभयमित्यन्तं कल्याणं परमामृतम् ॥
Verse 32
सद्रूपं परमं ब्रह्म त्रिपरिच्छेदवर्जितम् । यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः ॥
Verse 33
विजानाति तदा तस्य भयं स्यान्नात्र संशयः । अस्यैवानन्दकोशेन स्तम्बान्ता विष्णुपूर्वकाः ।।
Verse 34
भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु । तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः ॥
Verse 35
स्वरूपभूत आनन्दः स्वयं भाति परे यथा। निमित्तं किंचिदाश्रित्य खलु शब्दः प्रवर्तते ॥
Verse 36
यतो वाचो निवर्तन्ते निमित्तानामभावतः। निर्विशेष परानन्दे कथं शब्दः प्रवर्तते ।।
Verse 37
तस्मादेतन्मनः सूक्ष्मं व्यावृत्तं सर्वगोचरम्। यस्माच्छ्रोत्रत्वगक्ष्यादिखादिकर्मेन्द्रियाणि च ।।
Verse 38
व्यावृत्तानि परं प्राप्तुं न समर्थानि तानि तु। तब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्धनम् ॥
Verse 39
विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन। एवं यस्तु विजानाति स्वगुरोरुपदेशतः ॥
Verse 40
स साध्वसाधुकर्मभ्यां सदा न तपति प्रभुः।तप्यतापकरूपेण विभातमखिलं जगत् ।।
Verse 41
प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् । शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च।।
Verse 42
प्रमाता च प्रमाणं च प्रमेयं च फलं तथा। इति सप्तविधं प्रोक्तं भिद्यते व्यवहारतः ।।
Verse 43
मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते। मायासंबन्धश्चेशो जीवोऽविद्यावशस्तथा ॥
Verse 44
अन्त:करणसंबन्धात्मातेत्यभिधीयते। तथा तवृत्तिसंबन्धात्प्रमाणमिति कथ्यते ॥
Verse 45
अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते। तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते ॥
Verse 46
सर्वोपाधिविनिर्मुक्तं स्वात्मानं भावयेत्सुधीः। एवं यो वेद तत्त्वेन ब्रह्मभूयाय कल्पते ॥
Verse 47
सर्ववेदान्तसिद्धान्तसारं वच्मि यथार्थतः । स्वयं मृत्वा स्वयं भूत्वा स्वयमेवावशिष्यते ॥