Upanishad 42 Transliteration

Upanishad 42 Transliteration

कृष्णोपनिषद्

26 verses total

Verse 1
श्रीमहाविष्णु सच्चिदानन्दलक्षणं रामचन्द्रं दृष्ट्वा सर्वाङ्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः । तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्तमिति । भवान्तरे कृष्णावतारे यूयं गोपिका भूत्वा मामालिङ्गथ अन्ये येऽवतारास्ते हि गोपा नः स्त्रीश्च नो कुरु। अन्योन्यविग्रहं धार्यं तवाङ्गस्पर्शनादिह। शश्वत्स्पर्शयितास्माकं गृह्णीमोऽवतारान्वयम्॥
Verse 2
रुद्रादीनां वचः श्रुत्वा प्रोवाच भगवान्स्वयम्। अङ्गसङ्गं करिष्यामि भवद्वाक्यं करोम्यहम्॥
Verse 3
मोदितास्ते सुराः सर्वे कृतकृत्याधुना वयम्। यो नन्दः परमानन्दो यशोदा मुक्तिगेहिनी ॥
Verse 4
माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी । प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी ।।
Verse 5
तामसी दैत्यपक्षेषु माया त्रेधा ह्युदाहृता। अजेया वैष्णवी माया जप्येन च सुता पुरा ॥
Verse 6
देवकी ब्रह्मपुत्रा सा या वेदैरुपगीयते । निगमो वसुदेवो यो वेदार्थ: कृष्णरामयोः ।।
Verse 7
स्तुवते सततं यस्तु सोऽवतीर्णो महीतले। वने वृन्दावने क्रीडन्गोपगोपीसुरैः सह ॥
Verse 8
गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः । वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः सगोसुरः ॥
Verse 9
गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः । लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः ।।
Verse 10
गोपरूपो हरिः साक्षान्मायाविग्रहधारणः। दुर्बोधं कुहकं तस्य मायया मोहितं जगत्॥
Verse 11
दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्विजः । रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम्॥
Verse 12
बलं ज्ञानं सुराणां वै तेषां ज्ञानं हृतं क्षणात्। शेषनागोभवेद्रामः कृष्णो ब्रहमैव शाश्वतम् ॥
Verse 13
अष्टावष्टसहस्त्रे द्वे शताधिक्यः स्त्रियस्तथा। ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियः ॥
Verse 14
द्वेषश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः। दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः ॥
Verse 15
दया सा रोहिणी माता सत्यभामा धरेति वै। अघासुरो महाव्याधिः कलिः कंसः स भूपतिः ॥
Verse 16
शमो मित्रः सुदामा च सत्याक्रूरोद्धवो दमः । यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरूपो व्यवस्थितः ॥
Verse 17
दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः। दुग्धोदधिः कृतस्तेन भग्नभाण्डो दधिग्रहे॥
Verse 18
क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ। संहारार्थं च शत्रूणां रक्षणाय च संस्थितः ॥
Verse 19
कृपार्थं सर्वभूतानां गोप्तारं धर्ममात्मजम्। यत्स्रष्टुमीश्वरेणासीत्तच्चक्रं ब्रह्मरूपधृक् ॥
Verse 20
जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः । यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः ।।
Verse 21
कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा। चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि ।।
Verse 22
यावन्ति देवरूपाणि वदन्ति विबुधा जनाः। नमन्ति देवरूपेभ्य एवमादि न संशयः ।।
Verse 23
गदा च कालिका साक्षात्सर्वशत्रुनिबर्हणी। धनुः शार्ङंग स्वमाया च शरत्कालः सुभोजनः ।।
Verse 24
अब्जकाण्डं जगद्वीजं धृतं पाणौ स्वलीलया। गरुडो वटभाण्डीरः सुदामा नारदो मुनिः ।।
Verse 25
वृन्दा भक्तिः क्रिया बुद्धिः सर्वजन्तुप्रकाशिनी। तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः ।।
Verse 26
भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ।। सर्वतीर्थफलं लभते य एवं वेद। देहबन्धाद्विमुच्यते इत्युपनिषत् ।।