Upanishad 10 Transliteration

Upanishad 10 Transliteration

क्षुरिकोपनिषद्

25 verses total

Verse 1
क्षुरिकां संप्रवक्ष्यामि धारणां योगसिद्धये। यां प्राप्य न पुनर्जन्म योगयुक्तस्य जायते ॥
Verse 2
वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा। नि:शब्दं देशमास्थाय तत्रासनमवस्थितः ॥
Verse 3
कुर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च। मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ॥
Verse 4
पूरयेत्सर्वमात्मानं सर्वद्वारं निरुध्य च। उरोमुखकटिग्रीवं किंचिद्धदयमुन्नतम्॥
Verse 5
प्राणान्संधारयेत्तस्मिन्नासाभ्यन्तरचारिणः। भूत्वा तत्र गतप्राणः शनैरथ समुत्सृजेत् ॥
Verse 6
स्थिरमात्रादृढं कृत्वा अङ्गुष्ठेन समाहितः । द्वे तु गुल्फे प्रकुर्वीत जङ्घे चैव त्रयस्त्रयः ॥
Verse 7
द्वे जानुनी तथोरुभ्यां गुदे शिश्ने त्रयस्त्रयः । वायोरायतनं चात्र नाभिदेशे समाश्रयेत् ॥
Verse 8
तत्र नाडी सुषुम्ना तु नाडीभिर्बहुभिर्वृता। अणुरक्ताश्च पीताश्च कृष्णास्ताम्नविलोहिताः ॥
Verse 9
अतिसूक्ष्मां च तन्वीं च शुक्लां नाड़ीं समाश्रयेत्। ततः संचारयेत्प्राणानूर्णनाभीव तन्तुना॥
Verse 10
ततो रक्तोत्पलाभासं हृदयायतनं महत्। दहरं पुण्डरीकं तद् वेदान्तेषु निगद्यते ॥
Verse 11
तद्भित्त्वा कण्ठमायाति तां नाडीं पूरयन्यतः।। मनसस्तु परं गुह्यं सुतीक्ष्णं बुद्धिनिर्मलम् ॥
Verse 12
पादस्योपरि यन्मर्म तद्रूपं नाम चिन्तयेत्। मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः ॥
Verse 13
इन्द्रवज्र इति प्रोक्तं मर्मजङ्घानुकृन्तनम्। तद्धयानबलयोगेन धारणाभिर्निकृन्तयेत्।।
Verse 14
ऊर्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम्। चतुरभ्यासयोगेन छिन्देदनभिशङ्क्ति ॥
Verse 15
ततः वाण्ठान्तरे योगी समृहं नाड़िसंचयम्। एकोत्तरं नाडिशतं तासां मध्ये परा स्थिरा ।।
Verse 16
सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी। इडा तिष्ठति वामेन पिङ्गला दक्षिणेन च ॥
Verse 17
तयोर्मध्ये वरं स्थानं यस्तं वेद स वेदवित् । द्वासप्ततिसहस्त्राणि प्रति नाडीषु तैतिलम् ॥
Verse 18
छिन्द्यते ध्यानयोगेन सुषुम्नैका न छिद्यते। योगनिर्मलधारेण क्षुरेणानलवर्चसा ॥
Verse 19
छिन्देन्नाडीशतं धीरः प्रभावादिह जन्मनि। जातीपुष्पसमायोगैर्यथा वास्यति वै तिलम्॥
Verse 20
एवं शुभाशुभैर्भावैः सा नाडी तां विभावयेत् । तद्भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः ॥
Verse 21
तपोविजितचित्तस्तु निःशब्दं देशमास्थितः ।नि:सङ्गस्तत्त्वयोगज्ञो निरपेक्षः शनैः शनैः ॥
Verse 22
पाशं छित्त्वा यथा हंसो निर्विशङ्कः खमुत्क्रमेत् । छिन्नपाशस्तथा जीवः संसारंतरते सदा ॥
Verse 23
यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत्। तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ॥
Verse 24
प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित्। वैराग्योपलघृष्टेन छित्त्वा तं तु न बध्यते ॥
Verse 25
अमृतत्वं समाप्नोति यदा कामात्प्रमुच्यते। सर्वैषणाविनिर्मुक्तश्छित्वा तन्तुं न बध्यते छित्त्वा तन्तुं न बध्यते । इत्युपनिषत् ॥