Upanishad 66 Transliteration
Upanishad 66 Transliteration
कुण्डिकोपनिषद्
16 verses total
Verse 1
ब्रह्मचर्याश्रमे क्षीणे गुरुशुश्रूषणे रतः । वेदानधीत्यानुज्ञात उच्यते गुरुणाश्रमी ॥
Verse 2
दारमाहृत्य सदशमग्निमाधाय शक्तितः । ब्राह्मीमिष्टिं यजेत्तासामहोरात्रेण निर्वपेत् ॥
Verse 3
संविभज्य सुतानर्थे ग्राम्यकामान्विसृज्य च। संचरन्वनमार्गेण शुचौ देशे परिभ्रमन् ॥
Verse 4
वायुभक्षोऽम्बुभक्षो वा विहितैः कन्दमूलकैः।स्वशरीरे समाप्याथ पृथिव्यां नाश्रु पातयेत् ।।
Verse 5
सह तेनैव पुरुषः कथं संन्यस्त उच्यते ।
सनामधेयो यस्मिस्तु कथं संन्यस्त उच्यते ॥
Verse 6
तस्मात्फलविशुद्धाङ्गी संन्यासं संहितात्मनाम्। अग्निवर्णं विनिष्क्रम्य वानप्रस्थं प्रपद्यते ।।
Verse 7
लोकवद्धार्ययाऽऽसक्तो वनं गच्छति संयतः। संत्यक्त्वा संसृतिसुखमनुतिष्ठति किं मुधा ॥
Verse 8
किंवा दुःखमनुस्मृत्य भोगांस्त्यजति चोच्छ्तिान्।
गर्भवासभयाद्भीतः शीतोष्णाभ्यां तथैव च।।
Verse 9
गुह्यं प्रवेष्टमिच्छामि परं पदमनामयमिति। संन्यस्याग्निमपुनरावर्तनं यन्मृत्युर्जायमावहमिति । अथाध्यात्ममन्त्राञ्जपेत् ।
दीक्षामुपेयात्काषायबासाः।
कक्षोपस्थलोमानि वर्जयेत् ।
ऊर्ध्वबाहुर्विमुक्तमार्गों भवति। अनिकेतश्चरेद्भिक्षिाशी।
निदिध्यासनं दध्यात्।
पवित्रं धारयेजन्तुसंरक्षणार्थम्।
तदपि श्लोका भवन्ति।
कुण्डिकां चमसं शिक्यं त्रिविष्टपमुपानहौ। शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥
Verse 10
पवित्रं स्नानशाटीं च उत्तरासङ्गमेव च।
अतोऽतिरिक्तं यत्किंचित्सर्वं तद्वर्जयेद्यतिः ॥
Verse 11
नदीपुलिनशायी स्याद्देवागारेषु बाह्यतः ।
नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत्॥
Verse 12
स्नानं पानं तथा शौचमद्भिः पूताभिराचरेत्। स्तूयमानो न तुष्येत निन्दितो न शपेत्परान्॥
Verse 13
भिक्षादिवैदलं पात्रं स्नानद्रव्यमवारितम् ।
एवं वृत्तिमुपासीनो यतेन्द्रियो जपेत्सदा ॥
Verse 14
विश्वाय मनुसंयोगं मनसा भावयेत्सुधीः । आकाशाद्वायुर्वायोर्ज्योतिर्ज्योतिष आपोऽद्भयः पृथिवी।
एतेषां भूतानां ब्रह्म प्रपद्ये।
अजरममरमक्षरमव्ययं प्रपद्ये।
मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात्॥
Verse 15
न मे देहेन संबन्धो मेघेनेव विहायसः।
अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तिषु ॥
Verse 16
आकाशवकल्पविदूरगोऽहमादित्यवद्भास्यविलक्षणोऽहम्।
अहार्यवन्नित्यविनिश्चलोऽहमम्भोधिवत्पारविवर्जितोऽहम् ॥