Upanishad 74 Transliteration

Upanishad 74 Transliteration

मन्त्रिकोपनिषद्

20 verses total

Verse 1
ॐ अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम्। त्रिवर्त्मानं तेजसोऽहं सर्वत:पश्यन्न पश्यति॥
Verse 2
भूतसंमोहने काले भिन्न्ने तपसि वैखरे। अन्तः पश्यन्ति सत्त्वस्था निर्गुणं गुणगह्वरे॥
Verse 3
अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः कुमारकैः। विकारजननीमज्ञामष्टरूपामजां ध्रुवाम्॥
Verse 4
ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः। सूयते पुरुषार्थं च तेनैवाधिष्ठितं जगत्॥
Verse 5
गौरनाद्यन्तवती सा जनित्री भूतभाविनी। सितासिता च रक्ता च सर्वकामदुधा विभोः॥
Verse 6
पिबन्त्येनामविषयामविज्ञातां कुमारकाः। एकस्तु पिबते देवःस्वच्छन्दोऽत्र वशानुगः॥
Verse 7
ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसहद्विभुः। सर्वसाधारणीं दोग्ध्रीं पीयमानां तु यज्वभिः॥
Verse 8
पश्यन्त्यस्यां महात्मानः सुवर्णं पिप्पलाशनम्। उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो जगुः॥
Verse 9
शंसन्तमनुशंसन्ति बह्वृचाः शास्त्रकोविदाः। रथन्तरं बृहत्साम सप्तवैधैस्तु गीयते ।।
Verse 10
मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम्। पठन्ति भार्गवा ह्येते ह्यथर्वाणो भृगूत्तमाः॥
Verse 11
सब्रह्मचारिवृत्तिश्च स्तम्भोऽथ फलितस्तथा। अनड्वान्रोहितोच्छिष्टःपश्यन्तो बहुविस्तरम्॥
Verse 12
कालः प्राणश्च भगवान्मृत्युः शर्वो महेश्वरः। उग्रो भवश्च रुद्रश्च ससुरः सासुरस्तथा॥
Verse 13
प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च। स्तूयते मन्त्रसंस्तुस्यैरथर्वविदितैर्विभुः॥
Verse 14
तं षड्विंशक इत्येते सप्तविंशं तथापरे। पुरुषं निर्गुणं सांख्यमथर्वशिरसो विदुः॥
Verse 15
चतुर्विंशतिसंख्यातं व्यक्तमव्यक्तमेव च। अद्वैतं द्वैतमित्याहुस्त्रिधा तं पञ्चधा तथा।।
Verse 16
ब्रह्माद्यं स्थावरान्तं च पश्यन्ति ज्ञानचक्षुषः। तमेकमेव पश्यन्ति परिशुभ्रं विभुं द्विजाः॥
Verse 17
यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरजंगमम्। तस्मिन्नेव लयं यान्ति स्रवन्त्यःसागरे यथा॥
Verse 18
यस्मिन्भावाः प्रलीयन्ते लीनाश्चाव्यक्ततां ययुः। पश्यन्ति व्यक्ततां भूयो जायन्ते बुद्बुदा इव॥
Verse 19
क्षेत्रज्ञाधिष्ठितं चैव कारणैर्विद्यते पुनः। एवं स भगवान्देवं पश्यन्त्यन्ये पुन:पुनः॥
Verse 20
ब्रह्म ब्रह्मेत्यथायान्ति ये विदुर्ब्राह्मणास्तथा। अत्रैव ते लयं यान्ति लीनाश्चाव्यक्तशालिनः॥ लीनाश्चाव्यक्तशालिन इत्युपनिषत्॥