Upanishad 71 Transliteration

Upanishad 71 Transliteration

नादबिन्दूपनिषद्

56 verses totalShowing 150

Verse 1
ॐ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः। मकारं पुच्छमित्याहुरर्धमात्रा तु मस्तकम्॥
Verse 2
पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते। धर्मोऽस्य दक्षिणं चक्षुरधर्मोऽथो परः स्मृतः॥
Verse 3
भूर्लोकः पादयोस्तस्य भुवर्लोकस्तु जानुनि। सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत् ॥
Verse 4
जनोलोकस्तु हृद्देशे कण्ठे लोकस्तपस्ततः। भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः।।
Verse 5
सहस्रार्णमतीवात्र मन्त्र एष प्रदर्शितः। एवमेत समारूढो हंसयोगविचक्षणः॥
Verse 6
न भिद्यते कर्मचारैः पापकोटिशतैरपि। आग्नेयी प्रथमा मात्रा वायव्येषा तथापरा॥
Verse 7
भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा। परमा चार्धमात्रा या वारुणीं तां विदुर्बुधाः॥
Verse 8
कालत्रयेऽपि यस्येमा मात्रा नूनं प्रतिष्ठिताः। एष ओंकार आख्यातो धारणाभिर्निबोधत॥
Verse 9
घोषिणी प्रथमा मात्रा विद्युन्मात्रा तथापरा । पतङ्गिनी तृतीया स्याच्चतुर्थी वायुवेगिनी॥
Verse 10
पञ्चमी नामधेया तु षष्ठी चैन्द्रयभिधीयते। सप्तमी वैष्णवी नाम अष्टमी शांकरीति च ॥
Verse 11
नवमी महती नाम धृतिस्तु दशमी मता। एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा॥
Verse 12
प्रथमायां तु मात्रायां यदि प्राणैर्वियुच्यते। भरते वर्षराजासौ सार्वभौमः प्रजायते॥
Verse 13
द्वितीयायां समुत्क्रान्तो भवेद्यक्षो महात्मवान्। विद्याधरस्तृतीयायां गान्धर्वस्तु चतुर्थिका॥
Verse 14
पञ्चम्यामथ मात्रायां यदि प्राणैर्वियुज्यते । उषितः सह देवत्वं सोमलोके महीयते॥
Verse 15
षष्ठ्यामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् । अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा॥
Verse 16
नवम्यां तु महर्लोकं दशम्यां तु जनं व्रजेत्। एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम्॥
Verse 17
ततः परतरं शुद्धं व्यापकं निर्मलं शिवम्। सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः॥
Verse 18
अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत्। अनूपमं शिवं शान्तं योगयुक्तं सदाविशेत् ॥
Verse 19
तद्युक्तस्तन्मयो जन्तुः शनैर्मुञ्चेत्कलेवरम्। संस्थितो योगचारेण सर्वसङ्गविवर्जितः॥
Verse 20
ततो विलीनपाशोऽसौ विमल: कमलाप्रभुः। तेनैव ब्रह्मभावेन परमानन्दमश्नुते॥
Verse 21
आत्मानं सततं ज्ञात्वा कालं नय महामते। प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि ॥
Verse 22
उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति। तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते॥
Verse 23
देहादीनामसत्त्वात्तु यथा स्वप्ने विबोधतः। कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम्॥
Verse 24
यत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित्। स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः॥
Verse 25
अध्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः। उपादानं प्रपञ्चस्य मृद्भाण्डस्येव पश्यति ॥
Verse 26
अज्ञानं चेति वेदान्तैस्तस्मिन्नष्टे क्व विश्वता। यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात्॥
Verse 27
तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः। रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति॥
Verse 28
अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते। देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कुतः॥
Verse 29
अज्ञानजनबोधार्थं प्रारब्धमिति चोच्यते। तत: कालवशादेव प्रारब्धे तु क्षयं गते॥
Verse 30
ब्रह्मप्रणवसंधानं नादो ज्योतिर्मयः शिवः। स्वयमाविर्भवेदात्मा मेघापायेंऽशुमानिव॥
Verse 31
सिद्धासने स्थितो योगी मुद्रां संधाय वैष्णवीम्। शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं सदा॥
Verse 32
अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिः। पक्षाद्विपक्षमखिलं जित्वा तुर्यपदं व्रजेत्॥
Verse 33
श्रूयते प्रथमाभ्यासे नादी नानाविधी महान्। वर्धमाने तथाभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः॥
Verse 34
आदौ जलधिजीमूतभेरीनिर्झरसंभवः। मध्ये मर्दलशब्दाभो घण्टाकाहलजस्तथा॥
Verse 35
अन्ते तु किंकिणीवंशवीणाभ्रमरनि:स्वनः। इति नानाविधा नादाः श्रूयन्ते सूक्ष्मसूक्ष्मतः॥
Verse 36
महति श्रूयमाणे तु महाभेर्यादिकध्वनौ। तत्र सूक्ष्मं सूक्ष्मतरं नादमेव परामृशेत्॥
Verse 37
घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने। रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत्॥
Verse 38
यत्र कुत्रापि वा नादे लगति प्रथमं मनः। तत्र तत्र स्थिरीभूत्वा तेन सार्धं विलीयते॥
Verse 39
विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुवन्मनः। एकीभूयाथ सहसा चिदाकाशे विलीयते॥
Verse 40
उदासीनस्ततो भूत्वा सदाभ्यासेन संयमी। उन्मनीकारकं सद्यो नादमेवावधारयेत्॥
Verse 41
सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः। नादमेवानुसंदध्यान्नादे चित्तं विलीयते ॥
Verse 42
मकरन्दं पिबन्भृङ्गो गन्धान्नापेक्षते यथा। नादासक्तं सदा चित्तं विषयं न हि काङ्क्षति॥
Verse 43
बद्धः सुनादगन्धेन सद्यः संत्यक्तचापलः। नादग्रहणतश्चित्तमन्तरङ्गभुजङ्गमः॥
Verse 44
विस्मृत्य विश्वमेकाग्रः कुत्रचिन्न हि धावति। मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः॥
Verse 45
नियामनसमर्थोऽयं निनादो निशिताङ्कुशः। नादोऽन्तरङ्गसारङ्गबन्धने वागुरायते॥
Verse 46
अन्तरङ्गसमुद्रस्य रोधे वेलायतेऽपि वा। ब्रह्मप्रणवसंलग्ननादो ज्योतिर्मयात्मकः॥
Verse 47
मनस्तत्र लयं याति तद्विष्णोः परमं पदम्। तावदाकाशसंकल्पो यावच्छब्दः प्रवर्तते।।
Verse 48
नि:शब्दं तत्परं ब्रह्म परमात्मा समीयते। नादो यावन्मनस्तावन्नादान्तेऽपि मनोन्मनी।।
Verse 49
सशब्दश्चाक्षरे क्षीणे नि:शब्दं परमं पदम्। सदा नादानुसंधानात्संक्षीणा वासना तु या।।
Verse 50
निरञ्जने विलीयेते मनोवायू न संशयः। नादकोटिसहस्राणि बिन्दुकोटिशतानि च॥