Upanishad 54 Transliteration
Upanishad 54 Transliteration
नारायणोपनिषद्
5 verses total
Verse 1
अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति ।
नारायणात्प्राणो जायते ।
मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी।
नारायणाद्ब्रह्मा जायते ।
नारायणाद्रुद्रो जायते ।
नारायणादिन्द्रो जायते ।
नारायणात्प्रजापतिः प्रजायते । नारायणादद्वादशादित्या रुद्रा वसवः सर्वाणि छन्दांसि नारायणादेव समुत्पद्यन्ते। नारायणात्प्रवर्तन्ते ।
नारायणे प्रलीयन्ते।
एतदृवेदशिरोऽधीते ॥
Verse 2
अथ नित्यो नारायणः ।
ब्रह्मा नारायणः ।
शिवश्च नारायणः ।
शक्रश्च नारायणः ।
कालश्च नारायणः ।
दिशश्च नारायणः ।
विदिशश्च नारायणः ।
ऊर्ध्वं च नारायणः ।
अधश्च नारायणः ।
अन्तर्बहिश्च नारायणः।
नारायण एवेदं सर्वं यद्भूतं यच्च भव्यम्। निष्कलंको निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणो ने द्वितीयोऽस्ति कश्चित् ।
य एवं वेद से विष्णुरेव भवति स विष्णुरेव भवति ।
एतद्यजुर्वेदशिरोऽधीते ॥
Verse 3
ॐ इत्यग्रे व्याहरेत् ।
नम इति पश्चात् ।
नारायणायेत्युपरिष्टात्।
ॐ इत्येकाक्षरम्।
नम
इति द्वे अक्षरे।
नारायणायेति पञ्चाक्षराणि।
एतद्वै नारायणस्याष्टाक्षरं पदम्।
यो ह वै
नारायणस्याष्टाक्षरं पदमध्येति ।
अनपब्रुवः सर्वमायुरेति ।
विन्दते प्राजापत्यं रायस्पोषं गौपत्यं ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति। एतत्सामवेदशिरोऽधीते॥
Verse 4
प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम्।
अकार उकारो मकार इति।
ता अनेकधा समभवत्तदेतदोमिति ।
यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात्।
ॐ नमो नारायणायेति मन्त्रोपासको वैकुण्ठभुवनं गमिष्यति ।
तदिदं पुण्डरीकं विज्ञानघनं तस्मात्तडिदाभमात्रम्।
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युत इति ।
सर्वभूतस्थमेकं वै नारायणं कारणपुरुषमकारणं परं ब्रह्मोम्।
एतदथर्वशिरोऽधीते ॥
Verse 5
प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । तत्सायं-प्रातरधीयानः पापोऽपापो भवति । माध्यंदिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपात-कात्प्रमुच्यते । सर्ववेदपारायणपुण्यं लभते । नारायणसायुज्यमवाप्नोति श्रीमन्नारायणसायुज्यम-वाप्नोति य एवं वेद ॥