Upanishad 72 Transliteration
Upanishad 72 Transliteration
निरालम्बोपनिषद्
39 verses total
Verse 1
ॐ नमः शिवाय गुरवे सच्चिदानन्दमूर्तये।
निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे।
निरालम्बं समाश्रित्य सालम्बं विजहाति यः।
स संन्यासी च योगी च कैवल्यं पदमश्नुते।।
Verse 2
एषामज्ञानजन्तूनां समस्तारिष्टशान्तये।
यद्यद्बोद्धव्यमखिलं तदाशङ्कय ब्रवीम्यहम्॥
Verse 3
किं ब्रह्म। क ईश्वर ।
को जीवः।
का प्रकृतिः।
कः परमात्मा को ब्रह्मा।
को विष्णुः ।
को रुद्रः ।
क इन्द्रः ।
कः शमनः ।
कः सूर्यः।
कश्चन्द्रः।
के सुराः ।
के असुराः ।
के पिशाचाः ।
के मनुष्याः।
काः स्त्रियः।
के पश्वादयः।
किं स्थावरम्।
के ब्राह्मणादयः ।
का जातिः ।
किं कर्म।
किमकर्म।
किं ज्ञानम्।
किमज्ञानम्।
किं सुखम्।
किं दुःखम्।
कः स्वर्गः ।
को नरकः ।
को बन्धः।
को मोक्षः ।
क उपास्यः।
कः शिष्यः।
को विद्वान्।
को मूढः।
किमासुरम्।
किं तपः ।
किं परमं पदम्।
किं ग्राह्यम्।
किमग्राह्यम्।
कः संन्यासीत्याशङ्कयाह ब्रह्मेति॥
Verse 4
स होवाच महदहंकारपृथिव्यप्तेजोवाय्वाकाशत्वेन बृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूपतया भासमानमद्वितीयमखिलोपाधिविनिर्मुक्तं
तत्सकलशक्त्यु-पबृंहितमनाद्यनन्तं शुद्धं शिवं शान्तं निर्गुणमित्यादिवाच्यमनिर्वाच्यं चैतन्यं ब्रह्म।
ईश्वर इति च ।
ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य लोकान्सृष्ट्वा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वादीश्वरः॥
Verse 5
जीव इति च ब्रह्मविष्णवीशानेन्द्रादीनां नामरूपद्वारा स्थूलो ऽहमिति मिथ्याध्यासवशाज्जीवः।
सोऽहमेकोऽपि देहारम्भकभेदवशाद्बहुजीवः॥
Verse 6
प्रकृतिरिति च ब्रह्मणः सकाशान्नानाविचित्रजगन्निर्माणसामर्थ्यबुद्धिरूपा ब्रह्मश-क्तिरेव प्रकृतिः॥
Verse 7
परमात्मेति च देहादेः परतरत्वाद् ब्रह्मैव परमात्मा ॥
Verse 8
स ब्रह्मा स विष्णुः स इन्द्रः स शमनः स सूर्यः स चन्द्रस्ते सुरास्ते असुरास्ते पिशाचास्ते मनुष्यास्ताः स्त्रियस्ते पश्वादयस्तत्स्थावर ते ब्राह्मणादयः॥
Verse 9
सर्वं खल्विदं ब्रह्म नेह नानास्ति किंचन ॥
Verse 10
जातिरिति च।
न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः।
न जातिरात्मनो जातिर्व्यवहारप्रकल्पिता॥
Verse 11
कर्मेति च क्रियमाणेन्द्रियैः कर्माण्यहं करोमीत्यध्यात्मनिष्ठतया कृतं कर्मैव कर्म।
अकर्मेति च कर्तृत्वभोत्त्कृत्वाद्यहंकारतया बन्धरूपं जन्मादिकारणां नित्यनैमित्तिकया-गव्रततपोदानादिषु फलाभिसंधानं यत्तदकर्म॥
Verse 12
ज्ञानमिति देहेन्द्रियनिग्रहसद्गुरूपासनश्रवणमनननिदिध्यासनैर्यद्यद्दृग्दृश्यस्वरूपं सर्वान्तरस्थं सर्वसमं घटपटादिपदार्थमिवाविकारं विकारेषु चैतन्यं विना किंचिन्नास्तीति साक्षात्कारानुभवो ज्ञानम्॥
Verse 13
अज्ञानमिति च रज्जौ सर्पभ्रान्तिरिवाद्वितीये सर्वानुस्यूते सर्वमये ब्रह्मणि देवतिर्यङ्- नरस्थावरस्त्रीपुरुषवर्णाश्रमबन्धमोक्षोपाधिनानात्मभेदकल्पितं ज्ञानमज्ञानम्॥
Verse 14
सुखमिति च सच्चिदानन्दस्वरूपं ज्ञात्वानन्दरूपा या स्थितिः सैव सुखम्॥
Verse 15
दुःखमिति अनात्मरूपो विषयसंकल्प एव दुःखम्॥
Verse 16
स्वर्ग इति च सत्संसर्गः स्वर्गः।
नरक इति च असत्संसारविषयजनसंसर्ग एवं नरकः ॥
Verse 17
बन्ध इति च अनाद्यविद्यावासनया जातोऽहमित्यादिसंकल्पो बन्धः॥
Verse 18
पितृमातृसहोदरदारापत्यगृहारामक्षेत्रममतासंसारावरणसङ्कल्पो बन्धः॥
Verse 19
कर्तृत्वाद्यहंकारसंकल्पो बन्धः॥
Verse 20
अणिमाद्यष्टैश्वर्याशासिद्धसंकल्पो बन्धः॥
Verse 21
देवमनुष्याद्युपासनाकामसंकल्पो बन्धः॥
Verse 22
यमाद्यष्टाङ्योगसंकल्पो बन्धः॥
Verse 23
वर्णाश्रमधर्मकर्मसंकल्पो बन्धः॥
Verse 24
आज्ञाभयसंशयात्मगुणसंकल्पो बन्धः॥
Verse 25
यागव्रततपोदानविधिविधानज्ञानसंकल्पो बन्धः॥
Verse 26
केवलमोक्षापेक्षासंकल्पो बन्धः॥
Verse 27
संकल्पमात्रसंभवो बन्धः॥
Verse 28
मोक्ष इति च नित्यानित्यवस्तुविचारादनित्यसंसारसुखदुःख विषयसमस्तक्षेत्र ममताबन्धक्षयो मोक्षः॥
Verse 29
उपास्य इति च सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरुरुपास्यः॥
Verse 30
शिष्य इति च विद्याध्वस्तप्रपञ्चावगाहितज्ञानावशिष्टं ब्रह्मैव शिष्यः॥
Verse 31
विद्वानिति च सर्वान्तरस्थस्वसंविद्रूपविद्विद्वान्॥
Verse 32
मूढ इति च कर्तृत्वाद्यहंकारभावारूढो मूढः॥
Verse 33
आसुरमिति च ब्रह्मविष्यवीशानेन्द्रादीनामैश्वर्यकामनया निरशनजपाग्निहोत्रादि-ष्वन्तरात्मानं संतापयति चात्युग्ररागद्वेषविहिंसादम्भाद्यपेक्षितं तप आसुरम्॥
Verse 34
तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्षज्ञानाग्निना।
ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्प-बीजसन्तापं तपः॥
Verse 35
परमं पदमिति च प्राणेन्द्रियाद्यन्तः करणगुणादेः।
परतरं सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं परमं पदम्॥
Verse 36
ग्राह्यमिति च देशकालवस्तुपरिच्छेदराहित्यचिन्मात्रस्वरूपं ग्राह्यम्॥
Verse 37
अग्राह्यमिति च स्वस्वरूपव्यतिरिक्त मायामयबुद्धीन्द्रियगोचर जगत्स-त्यत्वचिन्तनमग्राह्यम्॥
Verse 38
संन्यासीति च सर्वधर्मान्परित्यज्य निर्ममो निरहंकारो भूत्वा ब्रह्मेष्टशरणमुपगम्य तत्त्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं ब्रह्म नेह नानास्ति किंचनेत्यादिमहावाक्यार्थानुभवज्ञानाद् ब्रह्मैवाहमस्मीति निश्चित्य निर्विकल्पसमाधिना स्वतन्त्रो यतिश्चरति स संन्यासी स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः स ब्राह्मण इति।।
Verse 39
इदं निरालम्बोपनिषदं योऽधीते गुर्वनुग्रहतः सोऽग्निपूतो भवति स वायुपूतो भवति न स पुनरावर्तते न स पुनरावर्तते पुनर्नाभिजायते पुनर्नाभिजायत इत्युपनिषत्॥