Upanishad 57 Transliteration
Upanishad 57 Transliteration
नृसिंहषट्चक्रोपनिषद्
8 verses total
Verse 1
ॐ देवाह वै सत्यं लोकमायंस्तं प्रजापतिमपृच्छन्नारसिंहचक्रन्नो ब्रूहीति।
तान्प्रजापति- र्नारसिंहचक्रमवोचत् ।
षड्वै नारसिंहानि चक्राणि भवन्ति ।
यत्प्रथमं तच्चतुररं यद्वितीयं तच्चतुररं यत्तृतीयं तदष्टारं यच्चतुर्थं तत्पश्चारयत्पञ्चमं तत्पञ्चारं यत्षष्ठं तदष्टारं तदेताति षडेव नारसिंहानि चक्राणि भवन्ति ॥
Verse 2
अथ कानि नामानि भवन्ति ।
यत्प्रथमं तदाचक्रं यद्वितीयं तत्सुचक्रं यत्तृतीयं तन्महाचक्र यच्चतुर्थं तत्सकललोकरक्षणचक्रं यत्पञ्चमं तद्युतचक्रं यद्वै षष्ठं तदसुरान्तकचक्रं तदेतानि षडेव नारसिंहचक्रनामानि भवन्ति ॥
Verse 3
अथ कानि त्रीणि वलयानि भवन्ति ।
यत्प्रथमं तदातरवलयं भवति ।
यद्वितीयं तन्मध्यमं वलयं भवति।
यत्तृतीयं तद्बाह्यं वलयं भवति।
तदेतानि त्रीण्येव वलयानि भवन्ति।
यदा तद्वैतद्वीजं यन्मध्यमं तां नारसिंहगायत्रीं यद्बाह्यं तन्मन्त्रः॥
Verse 4
अथ किमान्तरं वलयम्।
षड्वान्तराणि वलयानि भवन्ति।
यन्नारसिंहं तत्प्रथमस्य यन्महालक्ष्म्यं तद्वितीयस्य यत्सारस्वतं तत्तृतीयस्य यस्य यत्कामं देवं तच्चतुर्थस्य यत्प्रणवं तत्पञ्चमस्य यत्क्रोधदैवतं तत्वष्ठस्य। तदेतानि षण्णां नारसिंहचक्राणां षडान्तराणि वलयानि भवन्ति॥
Verse 5
अथ किं मध्यमं वलयम् ।
षड्वै मध्यमानि वलयानि भवन्ति । यन्नारसिंहाय तत्प्रथमस्य यद्विद्महे तद्वितीयस्य यद्वनखाय तत्तृतीयस्य यद्धीमहि तच्चतुर्थस्य यत्तन्नस्तत्पञ्चमस्य यत्सिंहः प्रचोदयादिति तत्षष्ठस्य।
तदेतानि षण्णां नारसिंहचक्राणां षण्मध्यमानि वलयानि भवन्ति ॥
Verse 6
अथ किं बाह्यं वलयम् ।
षड्वै बाह्यानि वलयानि भवन्ति ।
यदाचक्रं यदात्मा तत्प्रथमस्य यत्सुचक्रं यत्प्रियात्मा तद्वितीयस्य यन्महाचक्रं यज्ज्योतिरात्मा ततृयीयस्य यत्सकललो-करक्षणचक्रं यन्मायात्मा तच्चतुर्थस्य यदाचक्रं यद्योगात्मा तत्पञ्चमस्य यदसुरान्तकचक्रं यत्सत्यात्मा तत्वष्ठस्य । तदेतानि षण्णां नारसिंहचक्राणां षट् वाह्यानि वलयानि भवन्ति ॥
Verse 7
क्वैतानि न्यस्यानि।
यत्प्रथमं तद्धदये यद्वितीयं तच्छिरसि यत्तृतीयं तच्छिखायां यच्चतुर्थं तत्सर्वेष्वङ्गेषु यत्पञ्चमं तत्सर्वेषु (?) यत्वष्ठं तत्सर्वेषु देशेषु।
य एतानि नारसिंहानि चक्राण्येतेष्वङ्गेषु बिभृयात् तस्यानुष्टुप् सिध्यति।
तं भगवान् नृसिंहः प्रसीदति ।
तस्य कैवल्यं सिद्धयति ।
तस्य सर्वे लोकाः सिध्यन्ति ।
तस्य सर्वे जनाः सिद्धयन्ति।
तस्मादेतानि षण्णां नारसिंहचक्राण्यङ्गेषु न्यस्यानि भवन्ति ।
पवित्रं च एतत्तस्य न्यसनम्।
न्यसनान्नृसिंहानन्दी भवति।
कर्मण्यो भवति।
ब्रह्मण्यो भवति।
अन्यसनान्न नृसिंहानन्दी भवति।
न कर्मण्यो भवति ।
तस्मादेतत्पवित्रं तस्य न्यसनम् ॥
Verse 8
यो वा एतं नारसिंह चक्रमधीते स सर्वेषु वेदेष्वधीतो भवति ।
स सर्वेषु यज्ञेषु याजको भवति ।
स सर्वेषु तीर्थेषु स्नातो भवति ।
स सर्वेषु मन्त्रेषु सिद्धो भवति ।
स सर्वत्र शुद्धो भवति ।
स सर्वरक्षो भवति । भूतपिशाचशाकिनीप्रेतवंताकनाशको भवति । स निर्भयो भवति ।
तदेतन्नाश्रद्दधानाय प्रबूयात्तदेतन्नाश्रद्दधानाय प्रबृयादिति ॥