Upanishad 16 Transliteration

Upanishad 16 Transliteration

पंच ब्रह्मोपनिषद्

41 verses total

Verse 1
अथ पैप्पलादो भगवान्भो किमादौ किं जातमिति । सद्यो जातमिति किं भगव इति। अघोर इति । किं भगव इति। वामदेव इति । किं वा पुनरिमे भगव इति । तत्पुरुष इति । किं वा पुनरिमे भगव इति। सर्वेषां दिव्यानां प्रेरयिता ईशान इति । ईशानो भूतभव्यस्य सर्वेषां देवयोनिनाम्॥
Verse 2
कति वर्णाः । कति भेदाः । कति शक्तयः । यत्सर्वं ताद्गुह्यम्॥
Verse 3
तस्मै नमो महादेवाय महारुद्राय॥
Verse 4
प्रोवाच तस्मै भगवान्महेशः॥
Verse 5
गोप्याद्गोप्यतरं लोके यद्यस्ति शृणु शाकल। सद्योजातं मही पूषा रमा ब्रह्मा त्रिवृत्स्वरः ॥
Verse 6
ऋग्वेदो गार्हपत्यं च मन्त्राः सप्त स्वरास्तथा।वर्णं पोतं क्रिया शक्तिः सर्वाभीष्टफलप्रदम् ॥
Verse 7
अघोरं सलिलं चन्द्र गौरी वेदद्वितीयकम्। नीरदाभं स्वरं सान्द्रं दक्षिणाग्निरुदाहृतम् ॥
Verse 8
पञ्चाशद्वर्णसंयुक्तं स्थितिरिच्छाक्रियान्वितम्। शक्तिरक्षणसंयुक्तं सर्वाघौघविनाशनम्॥
Verse 9
सर्वदुष्टप्रशमनं सर्वेश्वर्यफलप्रदम्॥
Verse 10
वामदेवं महाबोधदायकं पावकात्मकम् । विद्यालोकसमायुक्तं भानुकोटिसमप्रभम् ॥
Verse 11
प्रसन्नं सामवेदाख्यं गानाष्टकसमन्वितम्। धीरस्वरमधीनं चाहवनीयमनुत्तमम् ॥
Verse 12
ज्ञानसंहारसंयुक्तं शक्तिद्वयसमन्वितम्। वर्णं शुक्लं तमोमिश्र पूर्णबोधकरं स्वयम्॥
Verse 13
धामत्रयनियन्तारं धामत्रयसमन्वितम्। सर्वसौभाग्यदं नृणां सर्वकर्मफलप्रदम् ॥
Verse 14
अष्टाक्षरसमायुक्तमष्टपत्रान्तरस्थितम् ॥
Verse 15
यत्तत्तत्पुरुषं प्रोक्तं वायुमण्डलसंवृतम्। पञ्चाग्निना समायुक्तं मन्त्रशक्तिनियामकम् ॥
Verse 16
पञ्चाशत्स्वरवर्णाख्यमथर्ववेदस्वरूपकम्।कोटिकोटिगणाध्यक्षं ब्रह्माण्डाखण्डविग्रहम् ॥
Verse 17
वर्णं रक्तं कामदं च सर्वाधिव्याधिभेषजम्। सृष्टिस्थितिलयादीनां कारणं सर्वशक्तिधृक् ॥
Verse 18
अवस्थात्रितयातीतं तुरीयं ब्रह्मसंज्ञितम्। ब्रह्मविष्ण्वादिभिः सेव्यं सर्वेषां जनकं परम्॥
Verse 19
ईशानं परमं विद्यात्प्रेरकं बुद्धिसाक्षिणम्। आकाशात्मकमव्यक्तमोंकारस्वरभूषितम्॥
Verse 20
सर्वदेवमयं शान्तं शान्त्यतीतं स्वराद्वहिः। अकारादिस्वराध्यक्षमाकाशमयविग्रहम्॥
Verse 21
पञ्चकृत्यनियन्तारं पञ्चब्रह्मात्मकं बृहत् ॥
Verse 22
पञ्चब्रह्मोपसंहारं कृत्वा स्वात्मनि संस्थितः। स्वमायावैभवान्सर्वान्संहृत्य स्वात्मनि स्थितः ॥ २२
Verse 23
पञ्चब्रह्मात्म कातीतो भासते स्वस्वते-जसा। आदावन्ते च मध्ये च भासते नान्यहेतुना॥
Verse 24
मायया मोहिताः शंभोर्महादेवं जगद्गुरुम्। न जानन्ति सुराः सर्वे सर्वकारणकारणम्। न संदृशे तिष्ठति रूपमस्य परात्परं पुरुषं विश्वधाम॥
Verse 25
येन प्रकाशते विश्वं यत्रैव प्रविलीयते। तद्ब्रह्म परमं शान्तं तद्ब्रह्मास्मि परं पदम्॥
Verse 26
पञ्चब्रह्ममिदं विद्यात्सद्योजातादिपूर्वकम्। दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं स्वयम्॥
Verse 27
पञ्चधा वर्तमानं तं ब्रह्मकार्यमिति स्मृतम्। ब्रह्मकार्यमिति ज्ञात्वा ईशानं प्रतिपद्यते ॥
Verse 28
पञ्चब्रह्मात्मकं सर्वं स्वात्मनि प्रविलाप्य च । सोऽहमस्मीति जानीयाद्विद्वान्ब्रह्मामृतो भवेत्॥
Verse 29
इत्येतद्ब्रह्म जानीयाद्यः स मुक्तो न संशयः ॥
Verse 30
पञ्चाक्षरमयं शम्भु परब्रह्मस्वरूपिणम्। नकारादियकारान्तं ज्ञात्वा पञ्चाक्षरं जपेत्॥
Verse 31
सर्वं पशात्मकं विद्यात्पञ्चब्रह्मात्मतत्त्वत: ॥
Verse 32
पञ्चब्रह्मात्मिकीं विद्यां योऽधीते भक्तिभावितः । स पश्चात्मकतामेत्य भासते पञ्चधा स्वयम्॥
Verse 33
एवमुक्त्वा महादेवो गालवस्य महात्मनः। कृपां चकार तत्रैव स्वान्तर्धिमगमत्स्वयम्॥
Verse 34
यस्य श्रवणमात्रेणाश्रुतमेव श्रुतं भवेत्। अमतं च मतं ज्ञातमविज्ञातं च शाकल ॥
Verse 35
एकेनैव तु पिण्डेन मृत्तिकायाश्च गौतम । विज्ञातं मृण्मयं सर्वं मृदभिन्नं हि कार्यकम्॥
Verse 36
एकेन लोहमणिना सर्वं लोहमयं यथा । विज्ञातं स्यादथैकेन नखानां कृन्तनेन च ॥
Verse 37
सर्वं कार्ष्णायसं ज्ञातं तदभिन्नं स्वभावतः । कारणाभिन्नरूपेण कार्यकारणमेव हि ।।
Verse 38
तद्रूपेण सदा सत्यं भेदेनोक्तिर्मृषा खलु । तच्च कारणमेकं हि न भिन्नं नोभयात्मकम् ॥
Verse 39
भेदः सर्वत्र मिथ्यैव धर्मादेरनिरूपणात्। अतश्च कारणं नित्यमेकमेवाद्वयं खलु। अत्र कारणमद्वैतं शुद्धचैतन्यमेव हि ॥
Verse 40
अस्मिन्ब्रह्मपुरे वेश्म दहरं यदिदं मुने। पुण्डरीकं तु तन्मध्ये आकाशो दहरोऽस्ति तत् ।स शिवः सच्चिदानन्दः सोऽन्वेव्यो मुमुक्षुभिः ॥
Verse 41
अयं हृदि स्थितः साक्षी सर्वेषामविशेषतः। तेनायं हृदयं प्रोक्तः शिवः संसारमोचकः । इत्युपनिषत् ॥