Upanishad 59 Transliteration
Upanishad 59 Transliteration
प्राणाग्निहोत्रोपनिषद्
23 verses total
Verse 1
अथातः सर्वोपनिषत्सारं संसारज्ञानातीतमन्नसूक्तं शारीरयज्ञं व्याख्यास्यामः ।
यस्मिन्नेव पुरुषः शरीरे विनाप्यग्निहोत्रेण विनापि सांख्ययोगेन संसारविमुक्तिर्भवति ॥
Verse 2
स्वेन विधिनान्नं भूमौ निक्षिप्य या ओषधीः सोमराज्ञीरिति तिसृभिरत्नपत इति द्वाभ्यामनुमन्त्रयते।।
Verse 3
या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः। बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ।।
Verse 4
याः फलिनीय अफला अपुष्पा याश्च पुष्पिणीः। बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ।।
Verse 5
जीवला नघारिषां मा ते बध्नाम्योषधिम् । यातयायुरुपाहरादप रक्षांसि चातयात् ।।
Verse 6
अन्नपतेऽन्नस्य नो धेह्यनमीवस्य शुष्मिणः। प्रप्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
Verse 7
यदन्नमग्निर्बहुधा विराद्धि रुद्वैः प्रजग्धं यदि वा पिशाचैः।
सर्वं तदीशानो अभयं कृणोतु शिवमीशानाय स्वाहा।।
Verse 8
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।
त्वं यज्ञस्त्वं ब्रह्मा त्वं रुद्रस्त्वं विष्णुस्त्वं वषट्कार आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरों नमः ॥
Verse 9
आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम्। पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम्। यदृच्छिष्टमभोज्यं यद्वा दुश्चरितं मम।
सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा।।
Verse 10
अमृतमस्यमृतोपस्तरणमस्यमृतं प्राणे जुहोम्यमाशिष्यान्तोऽसि ।
ॐ प्राणाय स्वाहा ।
ॐ अपानाय स्वाहा ।
ॐ व्यानाय स्वाहा ।
ॐ उदानाय स्वाहा ।
ॐ समानाय स्वाहा ।
ॐ ब्रहाणे स्वाहा।
ॐ ब्रह्मणि म आत्माऽमृतत्वायेति ॥
Verse 11
कनिष्ठिकाङ्गल्याङ्गष्ठेन च प्राणे जुहोति अनामिकयापाने मध्यमया व्याने सर्वाभिरुदाने प्रदेशिन्या समाने ॥
Verse 12
तूष्णीमेकामेकऋचा जुहोति द्वे आहवनीये एकां दक्षिणाग्नौ एकां गार्हपत्ये एकां सर्वप्रायश्चित्तीये॥
Verse 13
अथापिधानमस्यमृतत्वायोपस्पृश्य पुनरादाय पुनरुपस्पृशेत्॥
Verse 14
सव्ये प्राणावाऽऽपो गृहीत्वा हृदयमन्वालभ्य जपेत् । प्राणोऽग्निः परमात्मा पञ्चवायुभिरा-वृतः।
अभयं सर्वभूतेभ्यो न मे भीतिः कदाचन ॥
Verse 15
विश्वोऽसि वैश्वानरो विश्वरूपं त्वया धार्यते जायमानम्।
विश्वं त्वाहुतयः सर्वा यत्र ब्रह्माऽमृतोऽसि ॥
Verse 16
महानवोऽयं पुरुषो योऽङ्गुष्ठाग्ने प्रतिष्ठितः । तमद्भिः परिषिञ्चामि सोऽस्यान्ते अमृताय च।।
Verse 17
अनावित्येष बाहात्मा ध्यायेताग्निहोत्रं जुहोमीति । सर्वेषामेव सूनुर्भवति ।
अस्य यज्ञपरिवृता आहुतीर्होमयति ॥
Verse 18
स्वशरीर यज्ञं परिवर्तयामीति ।
चत्वारोऽग्नयस्ते किं नारमर्धयाः ॥
Verse 19
तत्र सूर्योऽग्निर्नाम सूर्यमण्डलाकृतिः सहस्त्ररश्मिपरिवृत एकऋषिर्भूत्वा मूर्धनि तिष्ठति ।
चस्मादुत्त्को दर्शनाग्निर्नाम चतुराकृतिराहवनीयो भूत्वा मुखे तिष्ठति ।
शारीरोऽग्निर्नाम जराप्रणुदा हविरवस्कन्दति । अर्धचन्द्राकृतिर्दक्षिणाग्निर्भूत्वा हृदये तिष्ठति । तत्र कोष्ठाग्निरिति-कोष्ठाग्निर्नामा-शितपीतलीढस्वादितं सम्यग् व्यष्टयं विषयित्वा गार्हपत्यो भूत्वा नाभ्यां तिष्ठति ॥
Verse 20
प्रायश्चित्तयस्त्वधस्तात्तिर्यक् तिस्त्रो हिमांशुप्रभाभिः प्रजननकर्मा ॥
Verse 21
अस्य शारीरयज्ञस्य यूपरशनाशोभितस्य को यजमानः का पत्नी के ऋत्विजः के सदस्याः
कानि यज्ञपात्राणि कानि हवींषि का वेदिः काऽन्तर्वेदिः को द्रोणकलशः को रथः कः पशुः
कोऽध्वर्यु: को होता को ब्राह्मणाच्छंसी कः प्रतिप्रस्थाता कः प्रस्तोता को मैत्रावरुणः क
उद्गाता का धारा कः पोता के दर्भाः कः स्रुव: काज्यस्थाली कावाघारौ कावाज्यभागौ केऽत्र
याजा: के अनुयाजा: केड़ा कः सूक्तवाकः कः शंयोर्वाकः काऽहिंसा के पत्नीसंयाजा: को यूपः का रशना का इष्टयः का दक्षिणा किमवभृथमिति ॥
Verse 22
अस्य शारीरयज्ञस्य यूपरशनाशोभितस्यात्मा यजमानः बुद्धिः पत्नी वेदा महर्त्विजः
अहंकारोऽध्वर्युः चित्तं होता प्राणो ब्राह्मणाच्छंसी अपानः प्रतिप्रस्थाता व्यानः प्रस्तोता उदान
उद्गाता समानो मैत्रावरुणः शरीरं वेदिः नासिकाऽन्तर्वेदिः मूर्धा द्रोणकलशः पादो रथः
दक्षिणहस्तः स्रुवः सव्यहस्त आज्यस्थाली श्रोत्रे आधारौ चक्षुषी आज्यभागौ ग्रीवा धारा पोता
तन्मात्राणि सदस्याः महाभूतानि प्रयाजा: भूतानि गुणा अनुयाजा: जिह्वेडा दन्तोष्ठौ सूक्तवाकः
तालुः शंयोर्वाकः स्मृतिर्दया क्षान्तिरहिंसा पत्नीसंयाजा: ओंकारो यूपः आशा रशना मनो रथः
कामः पशुः केशा दर्भाः बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रयाणि हवींषि अहिंसा इष्टयः त्यागो दक्षिणा अवभृथं मरणात् सर्वा ह्यस्मिन्देवताः शरीरेऽधिसमाहिताः ॥
Verse 23
वाराणस्यां मृतो वापि इदं वा ब्राह्मणः पठेत् ।
एकेन जन्मना जन्तुर्मोक्षं च प्राप्नुयादिति मोक्षं च प्राप्नुयादित्युपनिषत् ॥