Upanishad 33 Transliteration
Upanishad 33 Transliteration
शारीरकोपनिषद्
20 verses total
Verse 1
ॐ अथातः पृथिव्यादिमहाभूतानां समवायं शरीरम्। यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजो यत्संचरति स वायुर्यत्सुषिरं तदाकाशम् ॥
Verse 2
श्रोत्रादीनि ज्ञानेन्द्रियाणि । श्रोत्रमाकाशे वायौ त्वगग्नौ चक्षुरप्सुजिह्वा पृथिव्यां घ्राणमिति । एवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शरूपरसगन्धाश्चेति विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पन्नाः ।।
Verse 3
वाक्पाणिपादपायुपस्थाख्यानि कर्मेन्द्रियाणि। तेषां क्रमेण वचनादानगमनविस-र्गानन्दा श्चैते विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पन्नाः ।।
Verse 4
मनोबुद्धिरहंकारश्चित्तमित्यन्त:करणचतुष्टयम्। तेषां क्रमेण संकल्पविकल्पाध्यव-सायाभिमानावधारणास्वरूपाश्चैते विषयाः । मन:स्थानं गलान्तं बुद्धेर्वदनमहंकारस्य हृदयं चित्तस्य नाभिरिति ।।
Verse 5
अस्थिचर्मनाडीरोममांसाश्चेति पृथिव्यंशाः। मूत्रश्लेष्मरक्तशुक्रस्वेदा अबंशाः । क्षुत्तृष्णा-लस्यमोहमैथुनान्यग्नेः । प्रचारणविलेखनस्थूलाक्ष्युन्मेषनिमेषादि वायोः । कामक्रोधलोभमोह-भयान्याकाशस्य ॥
Verse 6
शब्दस्पर्शरूपरसगन्धाः पृथिवीगुणाः । शब्दस्पर्शरूपरसाश्चापां गुणाः । शब्दस्पर्शरूपा-ण्यग्निगुणाः । शब्दस्पर्शाविति वायुगुणौ । शब्द एक आकाशस्य
Verse 7
सात्त्विकराजसतामसलक्षणानि त्रयो गुणाः ॥
Verse 8
अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः। अक्रोधो गुरुशुश्नूषा शौचं संतोष आर्जवम् ॥
Verse 9
अमानित्वमदम्भित्वमास्तिकत्वमहिंस्त्रता । एते सर्वे गुणाः ज्ञेयाः सात्त्विकस्य विशेषतः ॥
Verse 10
अहं कर्ताऽस्यहं भोक्ताऽस्म्यहं वक्ताऽभिमानवान्।एते गुणा राजसस्य प्रोच्यन्ते ब्रह्मवित्तमैः ।।
Verse 11
निद्रालस्ये मोहरागौ मैथुनं चौर्यमेव च। एते गुणास्तामसस्य प्रोच्यन्ते ब्रह्मवादिभिः ।।
Verse 12
ऊर्ध्वं सात्त्विको मध्ये राजसोऽधस्तामस इति ।।
Verse 13
सत्यज्ञानं सात्त्विकम्। धर्मज्ञानं राजसम् । तिमिरान्धं तामसमिति ॥
Verse 14
जाग्रत्स्वप्नसुषुप्तितुरीयमिति चतुर्विधा अवस्थाः । ज्ञानेन्द्रियकर्मेन्द्रियान्तःकरणचतुष्टयं चतुर्दशकरणयुक्तं जाग्रत्। अन्तःकरणचतुष्टयैरेव संयुक्तः स्वप्नः। चित्तैककरणा सुषुप्तिः । केवलजीवयुक्तमेव तुरीयमिति॥
Verse 15
उन्मीलितनिमीलितमध्यस्थजीवपरमात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञ इति विज्ञायते ॥
Verse 16
बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया। शरीरं सप्तदशभिः सुसूक्ष्म लिङ्गमुच्यते ॥
Verse 17
मनो बुद्धिरहंकार खानिलाग्निजलानि भूः । एताः प्रकृतयस्त्वष्टौ विकाराः षोडशापरे ॥
Verse 18
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पंचमम् । पायूपस्थौ करौ पादौ वाक्चैव दशमी मता ॥
Verse 19
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च। त्रयोविंशतिरेतानि तत्त्वानि प्रकृतानि तु ॥
Verse 20
चतुर्विंशतिरव्यक्तं प्रधानं पुरुषः परः इत्युपनिषत्