Upanishad 31 Transliteration
Upanishad 31 Transliteration
शाट्यायनीयोपनिषद्
40 verses total
Verse 1
मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥
Verse 2
समासक्तं सदा चित्तं जन्तोर्विषयगोचरे। यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥
Verse 3
चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत्। यच्चित्तस्तन्मयो भाति गुह्यमेतत्सनातनम् ॥
Verse 4
नावेदविन्मनुते तं बृहन्तं नाब्रह्मवित्परमं प्रैति धाम। विष्णुक्रान्तं वासुदेवं विजानन्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी ॥
Verse 5
अथ ह यत्परं ब्रह्म सनातनं ये श्रोत्रिया अकामहता अधीयुः । शान्तो दान्त उपरतस्तिति-क्षुर्योऽनूचानो ह्यभिजज्ञौ समान:त्यक्तेषणो ह्यनृणस्तं विदित्वा मौनी वसेदाश्रमे यत्र कुत्र ।।
Verse 6
अथाश्रमं चरमं संप्रविश्य यथोपपत्तिं पञ्चमात्रां दधानः॥
Verse 7
त्रिदण्डमुपवीतं च वासः कौपीनवेष्टनम्। शिक्यं पवित्रमित्येतद्बिभृयाद्यावदायुषम् ॥ ७॥
Verse 8
पञ्चैतास्तु यतेर्मात्रास्ता मात्रा ब्रह्मणे श्नुताः। न त्यजेद्यावदुत्क्रान्तिरन्तेऽपि निखनेत्सह ॥
Verse 9
विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव च। तयोरेकमपि त्यक्त्वा पतत्येव न संशयः ॥
Verse 10
त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम्।निर्वाणं सर्वधर्माणामिति वेदानुशासनम् ॥
Verse 11
अथ खलु सौम्य कुटीचको बहूदको हंसः परमहंस इत्येते परिव्राजकाश्चतुर्विधा भवन्ति । सर्व एते विष्णुलिङ्गिनः शिखिन उपवीतिनः शुद्धचित्ता आत्मानमात्मना ब्रह्म भावयन्तः शुद्धचिद्रूपोपासनरता जपयमवन्तो नियमवन्तः सुशीलिनः पुण्यश्लोका भवन्ति । तदेतदृचाभ्यु-क्तम्। कुटीचको बहुदकश्चापि हंसः परमहंस इव वृत्त्या च भिन्नाः । सर्व एते विष्णुलिङ्ग दधाना वृत्त्या व्यक्तं बहिरन्तश्च नित्यम्॥
Verse 12
पञ्चयज्ञा वेदशिः प्रविष्टाः क्रियावन्तोऽमि संगता ब्रह्मविद्याम्। त्यक्त्वा वृक्षं वृक्षमूलं | श्रितासः संन्यस्तपुष्पा रसमेवाश्नुवानाः। विष्णुक्रीडा विष्णुरतयो विमुक्ता विष्णवात्मका विष्णुमेवापियन्ति॥
Verse 13
त्रिसंध्यं शक्तित: स्न्नानं तर्पणं मार्जनं तथा। उपस्थानं पञ्चयज्ञान्कुर्यादामरणान्तिकम्॥
Verse 14
दशभिः प्रणवैः सप्तव्याहृतिभिश्चतुष्पदा। गायत्रीजप यज्ञश्च त्रिसंध्यं शिरसा सह ॥
Verse 15
योगयज्ञः सदैकाग्रयभक्त्या सेवा हरेर्गुरोः। अहिंसा तु तपोयज्ञो वाड्मन:कायकर्मभिः ॥
Verse 16
नानोपनिषदभ्यासः स्वाध्यायो यज्ञ ईरितः । ओमित्यात्मानमव्यग्रो ब्रह्मण्यग्नौ जुहोति यत्॥
Verse 17
ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः । ज्ञानदण्डा ज्ञानशिखा ज्ञानयज्ञोपवीतिनः ॥
Verse 18
शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम्। ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् ॥
Verse 19
अथ खलु सोम्यैते परिव्राजका यथा प्रादुर्भवन्ति तथा भवन्ति । कामक्रोधलोभमो-हदम्भदर्पासूयाममत्वाहंकारादींस्तितीर्य मानावमानौ निन्दास्तुती च वर्जयित्वा वृक्ष इव तिष्ठा-सेत् छिद्यमानो न ब्रूयात्। तदेवं विद्वांस इहैवामृता भवन्ति। तदेतदृचाभ्युक्तम्। बन्धुपुत्रमनुमो-दयित्यानवेक्ष्यमाणो द्वन्द्वसहः प्रशान्तः । प्राचीमुदीचीं वा निर्वर्तयं श्चरेत ॥
Verse 20
पात्री दण्डी युगमात्रावलोकी शिखी मुण्डी चोपवीती कुटुम्बी।
यात्रामात्रं प्रतिगृह्णन्मनुष्यात् अयाचितं याचितं वोत भैक्षं ॥
Verse 21
मृद्यर्वलाबूफलंतन्तुपर्णपात्रं तत्तथा यथा तु लब्धम्।। क्षाणं क्षामं तृणं कन्थाजिने च पर्णमाच्छादनं स्यादहतं वा विमुक्तः ॥
Verse 22
ऋतुसन्धौ मुण्डयेन्मुण्डमात्रं नाधो नाक्षं जातु शिखां न वापयेत्। चतुरो मासान्धुवशीलतः स्यात्स यावत्सुप्तोऽन्तरात्मा पुरुषो विश्वरूपः॥
Verse 23
अन्यानथाष्टौ पुनरुत्थितेऽस्मिन्स्व कर्मलिप्सुर्विहरेद्वा वसेद्वा। देवाग्न्यगारे तरुमूले गुहायां वसेदसङ्गोऽलक्षितशीलवृत्तः । अनिन्धनो ज्योतिरिवोपशान्तो न चोद्विजेदुद्विजेद्यत्र कुत्र॥
Verse 24
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः। किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥
Verse 25
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः।नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत्॥
Verse 26
बाल्येनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम्। ब्रह्मविद्यां च बाल्यं च निर्विद्य मुनिरात्मवान्॥
Verse 27
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः। अथ मत्र्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ।।
Verse 28
अथ खलु सोम्येदं परिव्राज्यं नैष्ठिकमात्मधर्मं यो विजहाति स वीरहा भवति । स ब्राह्महा भवति । स भ्रूणहा भवति । स महापातकी भवति । य हम वैष्णवीं निष्ठां परित्यजति । स स्तेनो भवति। गुरुतल्पगो भवति। समित्रधुग्भवति। स कृतघ्नो भवति । स सर्वस्मा ल्लोकात्प्रच्युतो भवति । तदेतदृचाभ्युक्तम्। स्तेनः सुरापो गुरुतल्पगामी मित्रधुगेते निष्कृतेर्यान्ति शुद्धिम। व्यक्तमव्यक्तं वा विधृतं विष्णुलिङ्गं त्यजन्न शुध्येदखिलरात्मभासा ॥
Verse 29
त्यक्त्वा विष्णोर्लिङ्गमन्तर्बहिर्वा यः स्वाश्रमं सेवतेऽनाश्रमं वा। प्रत्यापतिं भजते वातिमूढो नैषां गतिः कल्पकोट्यापि दृष्टा॥
Verse 30
त्यक्त्वा सर्वाश्रमान्धीरो वसेन्मोक्षाश्रमे चिरम्। मोक्षाश्रमात्परिभ्रष्टो नगतिस्तस्य विद्यते ॥
Verse 31
पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति । तमारूढच्युतं विद्यादिति वेदानुशासनम्॥
Verse 32
अथ खलु सोम्येमं सनातनमात्मधर्मं वैष्णवीं निष्ठां लब्ध्वा यस्तामदूषयन्वर्तते स वशी भवति । स पुण्यश्लोको भवति । स लोकज्ञो भवति । स वेदान्तज्ञो भवति । स ब्रह्मज्ञो भवति। स सर्वज्ञो भवति । स स्वराड् भवति । स परं ब्रह्म भगवन्तमाप्नोति । स पितृसंबन्धिनो बान्धवान्सुह्दो मित्राणि च भवादुत्तारयति ।।
Verse 33
तदेतदृचाभ्युक्तम्। शतं कुलानां प्रथमं बभूव तथा पराणां त्रिशतं समग्रम्। एते भवन्ति सुकृतस्य लोके येषां कुले संन्यसतीह विद्वान्॥
Verse 34
त्रिंशत्परांस्त्रिंशदपरांस्त्रिशच्च परतः परान्। उत्तारयति धर्मिष्ठः परिव्राडिति वै श्नुति ॥
Verse 35
संन्यस्तमिति यो ब्रूयात्कण्ठस्थप्राणवानपि। तारिताः पितरस्तेन इति वेदानुशासनम् ॥
Verse 36
अथ खलु सोम्येनं सनातनमात्मधर्मं वैष्णवीं निष्ठां नासमाप्य प्रबूयात्। नानूचानाय नानात्मविदे नावीतरागाय नाविशुद्धाय नानुपसन्नाय नाप्रयतमानसायेति ह स्माहुः। तदेतदृचाभ्युक्तम् । विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि । असूयकायानृजवे । शठाय मा मा ब्रूया वीर्यवती तथा स्याम्॥
Verse 37
यमेवैष विद्याच्छुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम्।
अस्मा इमामुपसाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम्॥
Verse 38
अध्यापिता ये गुरु नाद्रियन्ते विप्ना वाचा मनसा कर्मणा वा।
यथैव तेन न गुरुर्भोजनीयस्तथैव चान्नं न भुनक्ति श्नुतं तत् ॥
Verse 39
गुरुरेव परो धर्मो गुरुरेव परा गतिः । एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति। तस्य श्नुतं तपो ज्ञानं स्त्रवत्यामघटाम्बुवत् ॥
Verse 40
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । स ब्रह्मवित्परं प्रेयादिति वेदानुशासनम् इत्युपनिषत् ॥