Upanishad 78 Transliteration
Upanishad 78 Transliteration
शुकरहस्योपनिषद्
52 verses total— Showing 1–50
Verse 1
अथातो रहस्योपनिषदं व्याख्यास्यामः॥
Verse 2
देवर्षयो ब्रह्माणं संपूज्य प्रणिपत्य पप्रच्छुर्भगवन्नस्माकं रहस्योपनिषदं ब्रूहीति॥
Verse 3
सोऽब्रवीत् पुरा व्यासो महातेजाः सर्ववेदः तपोनिधिः।
प्रणिपत्य शिवं साम्वं कृताञ्जलिरुवाच ह॥
Verse 4
श्रीवेदव्यास उवाच-
देवदेव महाप्राज्ञ पाशच्छेददृढव्रत ।
शुकस्य मम पुत्रस्य वेदसंस्कारकर्मणि ॥
Verse 5
ब्रह्मोपदेशकालोऽयमिदानीं समुपस्थितः।
ब्रह्मोपदेशः कर्त्तव्यो भवताद्य जगद्गुरो।।
Verse 6
मयोपदिष्टे कैवल्ये साक्षाद्ब्रह्मणि शाश्वते।
विहाय पुत्रो निर्वेदात्प्रकाशं यास्यति स्वयम्॥
Verse 7
श्री वेदव्यास उवाच -
यथा तथा वा भवतु ह्युपनायनकर्मणि।
उपदिष्टे मम सुते ब्रह्मणि त्वत्प्रसादतः॥
Verse 8
सर्वज्ञो भवतु क्षिप्रं मम पुत्रो महेश्वर।
तव प्रसादसंपन्नो लभेन्मुक्तिं चतुर्विधाम्॥
Verse 9
तच्छ्रुत्वा व्यासवचनं सर्वदेवर्षिसंसदि।
उपदेष्टुं स्थितः शम्भुः साम्बो दिव्यासने मुदा॥
Verse 10
कृतकृत्यः शुकस्तत्र समागत्य सुभक्तिमान्।
तस्मात् स प्रणवं लब्ध्वा पुनरित्यब्रवीच्छिवम्॥
Verse 11
श्रीशुक उवाच-
देवादिदेव सर्वज्ञ सच्चिदानन्दलक्षण।
उमारमण भूतेश प्रसीद करुणानिधे॥
Verse 12
उपदिष्टं परंब्रह्म प्रणवान्तर्गतं परम्। तत्त्वमस्यादिवाक्यानां प्रज्ञादीनां विशेषतः॥
श्रोतुमिच्छामि तत्त्वेन षडङ्गानि यथाक्रमम्।
वक्तव्यानि रहस्यानि कृपयाद्य सदाशिव।
Verse 13
श्रीसदाशिव उवाच-
साधु साधु महाप्राज्ञ शुक ज्ञाननिधे मुने।
प्रष्टव्यं तु त्वया पृष्टं रहस्यं वेदगर्भितम्॥
Verse 14
रहस्योपनिषन्नाम्ना सषडङ्गमिहोच्यते।
यस्य विज्ञानमात्रेण मोक्षः साक्षान्न संशयः॥
Verse 15
अङ्गहीनानि वाक्यानि गुरुर्नोपदिशेत्पुनः।
सषडङ्गान्युपदिशेन्महावाक्यानि कृत्स्नशः॥
Verse 16
चतुर्णामपि वेदानां यथोपनिषदः शिरः।
इयं रहस्योपनिषत्तथोपनिषदां शिरः॥
Verse 17
रहस्योपनिषद्ब्रह्म ध्यातं येन विपश्चिता।
तीर्थैर्मन्त्रैः श्रुतैर्जप्यैस्तस्य किं पुण्यहेतुभिः॥
Verse 18
वाक्यार्थस्य विचारेण यदाप्नोति शरच्छतम्। एकवारजपेनैव ऋष्यादिध्यानतश्च यत्॥
Verse 19
ॐ अस्य श्रीमहावाक्यमहामन्त्रस्य हंस ऋषिः।
अव्यक्तगायत्री छन्दः।
परमहंसो देवता।
हं बीजम्।
सः शक्तिः।
सोऽहं कीलकम्।
मम परमहंसप्रीत्यर्थे महावाक्यजपे विनियोगः।
सत्यं ज्ञानमनन्तं ब्रह्म अङ्गुष्ठाभ्यां नमः।
नित्यानन्दो ब्रह्म तर्जनीभ्यां स्वाहा।
नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट्।
यो वै भूमा अनामिकाभ्यां हुम्।
यो वै भूमाधिपतिः कनिष्ठिकाभ्यां वौषट्। एकमेवाद्वितीयं ब्रह्म करतलकरपृष्ठाभ्यां फट्।
सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः।
नित्यानन्दो ब्रह्म शिरसे स्वाहा।
नित्यानन्दमयं ब्रह्म शिखायै वषट्।
यो वै भूमा कवचाय हुम्।
यो वै भूमाधिपतिः नेत्रत्रयाय वौषट्।
एकमेवाद्वितीयं ब्रह्म अस्राय फट्।
भूर्भुवःसुवरोमिति दिग्बन्धः॥
Verse 20
ध्यानम् नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि।।
Verse 21
अथ महावाक्यानि चत्वारि।
यथा ॐप्रज्ञानं ब्रह्म॥ १॥
ॐ अहं ब्रह्मास्मि॥ २॥
ॐ तत्त्वमसि॥ ३॥
ॐ अयमात्मा ब्रह्म॥४॥
तत्त्वमसीत्यभेदवाचकमिदं ये जपन्ति ते शिवसायुज्यमुक्तिभाजो भवन्ति॥
Verse 22
तत्पदमहामन्त्रस्य।
हंस ऋषिः।
अव्यक्तगायत्री छन्द।
परमहंसो देवता।
हं बीजम् ।
सः शक्तिः।
सोऽहं कीलकम्।
मम सायुज्यमुक्त्यर्थे जपे विनियोगः ।
तत्पुरु-षाय अङ्गुष्ठाभ्यां नमः।
ईशानाय तर्जनीभ्यां स्वाहा।
अघोराय मध्यमाभ्यां वषट्।
सद्योजाताय अनामिकाभ्यां हुम्।
वामदेवाय कनिष्ठिकाभ्यां वौषट्।
तत्पुरुषेशानघोर-सद्योजातवामदेवेभ्यो नमः करतलकरपृष्ठाभ्यां फट्।
एवं हृदयादिन्यासः।
भूर्भुवः सुवरोमिति दिग्बन्धः॥
Verse 23
ज्ञानं ज्ञेयं ज्ञानगम्यादतीतं शुद्धं बुद्धं मुक्तमप्यव्ययं च।
सत्यं ज्ञानं सच्चिदानन्दस्त्यं ध्यायेदेवं तन्महो भ्राजमानम्॥
Verse 24
त्वंपदमहामन्त्रस्य विष्णुर्ऋषिः।
गायत्रीछन्दः।
परमात्मा देवता।
ऐं बीजम् ।
क्लीं शक्तिः ।
सौः कीलकम् ।
मम मुक्त्यर्थे जपे विनियोगः।
वासुदेवाय अङ्गुष्ठाभ्यां नमः।
संकर्षणाय तर्जनीभ्यां स्वाहा।
प्रद्युम्नाय मध्यमाभ्यां वषट्।
अनिरुद्धाय अनामिकाभ्यां हुम्।
वासुदेवाय कनिष्ठिकाभ्यां वौषट्।
वासुदेवसंकर्षणप्रद्युम्नानिरुद्धेभ्यः करतलकर-पृष्ठाभ्यां फट्।
एवं हृदयादिन्यासः।
भूर्भुवः सुवरोमिति दिग्बन्धः॥
Verse 25
जीवत्वं सर्वभूतानां सर्वत्राखण्डविग्रहम्।
चित्ताहंकारयन्तारं जीवाख्यं त्वं पदं भजे॥
Verse 26
असिपदमहामन्त्रस्य मन ऋषिः।
गायत्री छन्दः।
अर्धनारीश्वरो देवता।
अव्यक्ता-दिर्बीजम्।
नृसिंहः शक्तिः।
परमात्मा कीलकम्।
जीवब्रह्मैक्यार्थे जपे विनियोगः।
पृथ्वीट्वय-णुकाय अङ्गुष्ठाभ्यां नमः।
अब्ट्वयणुकाय तर्जनीभ्यां स्वाहा।
तेजोट्वयणुकाय मध्यमाभ्यां वषट्।
वायुद्वयणुकाय अनामिकाभ्यां हुम्।
आकाशद्वयणुकाय कनिष्ठिकाभ्यां वौषट्।
पृथिव्यप्तेजोवाय्वाकाशद्वयणुकेभ्यः करतलकरपृष्ठाभ्यां फट्।
एवं हृदयादि न्यासः।
भूर्भुवः सुवरोमिति दिग्बन्धः॥
Verse 27
जीवो ब्रह्मेति वाक्यार्थं यावदस्ति मनःस्थितिः।
ऐक्यं तत्त्वं लये कुर्वन्ध्यायेदसिपदं सदा॥
Verse 28
एवं महावाक्यषडङ्गान्युक्तानि॥
Verse 29
अथ रहस्योपनिषद्विभागशो वाक्यार्थश्लोकाः प्रोच्यन्ते॥
Verse 30
येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च।
स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदीरितम्॥
Verse 31
चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु।
चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि॥
Verse 32
परिपूर्णः परात्मास्मिन्देहे विद्याधिकारिणि।
बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते॥
Verse 33
स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः।
अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम्॥
Verse 34
एकमेवाद्वितीयं सन्नामरूपविवर्जितम्।
सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥
Verse 35
श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम्।
एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम्॥
Verse 36
स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम्।
अहंकारादिदेहान्तं प्रत्यगात्मेति गीयत॥
Verse 37
दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते ।
ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम्॥
Verse 38
अनात्मदृष्टेरविवेकनिद्रामहं मम स्वप्नगतिं गतोऽहम्।
स्वरूपसूर्येऽभ्युदिते स्फुटोक्तेर्गुरोर्महावाक्यपदैः प्रबुद्धः॥
Verse 39
वाच्यं लक्ष्यमिति द्विधार्थसरणीवाच्यस्य हि त्वंपदे वाच्यं भौतिकमिन्द्रियादिरपि यल्लक्ष्यं त्वमर्थश्च सः।
वाच्यं तत्पदमीशताकृतमतिर्लक्ष्यं तु सच्चित्सुखानन्दब्रह्म तदर्थ एष च तयोरैक्यं त्वसीदं पदम्॥
Verse 40
त्वमिति तदिति कार्ये कारणे सत्युपाधौ द्वितयमितरथैकं सच्चिदानन्दरूपम्।
उभयवचनहेतू देशकालौ च हित्वा जगति भवति सोऽयं देवदत्तो यथैकः॥
Verse 41
कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः।
कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते॥
Verse 42
श्रवणं तु गुरोः पूर्वं मननं तदनन्तरम्।
निदिध्यासनमित्येतत् पूर्णबोधस्य कारणम्॥
Verse 43
अन्यविद्यापरिज्ञानमवश्यं नश्वरं भवेत्।
ब्रह्मविद्यापरिज्ञानं ब्रह्मप्राप्तिकरं स्थितम्॥
Verse 44
महावाक्यान्युपदिशेत्सषडङ्गानि देशिकः।
केवलं नहि वाक्यानि ब्रह्मणो वचनं यथा॥
Verse 45
ईश्वर उवाच-
एवमुक्त्वा मुनिश्रेष्ठ रहस्योपनिषच्छुक।मया पित्रानुनीतेन व्यासेन ब्रह्मवादिना॥
Verse 46
ततो ब्रह्मोपदिष्टं वै सच्चिदानन्दलक्षणम्।
जीवन्मुक्तः सदा ध्यायन्नित्यस्त्वं विहरिष्यसि॥
Verse 47
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः॥
Verse 48
उपदिष्टः शिवेनेति जगत्तन्मयतां गतः।
उत्थाय प्रणिपत्येशं त्यक्ताशेषपरिग्रहः॥
Verse 49
परब्रह्मपयोराशौ प्लवन्निव ययौ तदा।
प्रव्रजन्तं तमालोक्य कृष्णद्वैपायनो मुनिः॥
Verse 50
अनुव्रजन्नाजुहाव पुत्रविश्लेषकातरः ।
प्रतिनेदुस्तदा सर्वे जगत्स्थावरजङ्गमाः॥