Upanishad 50 Transliteration
Upanishad 50 Transliteration
त्रिपुरोपनिषद्
17 verses total
Verse 1
तिस्त्रः पुरस्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः संनिविष्टाः ।
अधिष्ठायैना अजरा पुराणी महत्तरा महिमा देवतानाम्॥
Verse 2
नवयोनीर्नवचक्राणि दधिरे नवैव योगा नव योगिन्यश्च ।
नवानां चक्रा अधिनाथा स्योना नव भद्रा नव मुद्रा महीनाम्॥
Verse 3
एका स आसीत्प्रथमा सा नवासीदा सोनविंशादा सोनत्रिंशात्।
चत्वारिंशादथ तिस्त्रः समिधा उशतीरिव मातरो माऽऽविशन्तु ॥
Verse 4
ऊर्ध्वज्वलज्ज्वलनं ज्योतिरग्रे तमो वै तिरश्चीनमजरं तद्रजोऽभूत्।
आनन्दनं मोदनं ज्योतिरिन्दोरेता उ वै मण्डला मण्डयन्ति ॥
Verse 5
यास्तिस्त्रो रेखाः सदनानि भूस्त्रीस्त्रिविष्टपास्त्रिगुणास्त्रिप्रकाराः।
एतत्त्रयं पूरकं पूरकाणां मन्त्री प्रथते मदनो मदन्या ॥
Verse 6
मदन्तिका मानिनी मंगला च सुभगा च सा सुन्दरी सिद्धिमत्ता।
लज्जा पतिस्तुष्टिष्टिा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती ॥
Verse 7
इमां विज्ञाय सुधया मदन्ती परिसृता तर्पयन्तः स्वपीठम्।
नाकस्य पृष्ठे महतो वसन्ति परं धाम त्रैपुरं चाविशन्ति ।।
Verse 8
कामो योनिः कामकला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः ।
पुनर्गहा सकला मायया च पुरूच्येषा विश्वमातऽऽदिविद्या ॥
Verse 9
षष्ठं सप्तममथ वह्निसारथिमस्या मृलत्रिकमादेशयन्तः।
कथ्यं कविं कल्पर्क काममीशं तुष्टुवांसो अमृतत्वं भजन्ते ॥
Verse 10
पुरं हन्त्रीमुखं विश्वमातू रवे रेखा स्वरमध्यं तदेषा।
बृहत्तिथिर्दश पञ्चा च नित्या सषोडशिकं पुरमध्यं बिभर्ति ॥
Verse 11
यद्वा मण्डलाद्वा स्तनबिम्बमेकं मुखं चाधस्त्रीणि गुहासदनानि।
कामीकलां कामरूपां चिकित्वा नरो जायते कामरूपश्च कामः ।।
Verse 12
परिसृतं झषमाजं पलं च भक्तानि योनी: सुपरिष्कृताश्च।
निवेदयन्देवतायै महत्त्यै स्वात्मीकृते सुकृते सिद्धिमेति ॥
Verse 13
सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकान्।
इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या ।।
Verse 14
भगः शक्तिर्भगवान्काम व इंश उभा दाताराविह् सौभगानाम्।
समप्रधानौ समसत्त्वौ समोजौ तयोः शक्तिरजरा विश्वयोनिः ।।
Verse 15
परिसृता हविषा भावितेन प्रसंकोचे गलिते वैमनस्कः ।
शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति ॥
Verse 16
इयं महोपनिषत्रैपुर्या यामक्षरं परमो गीर्भिरीट्टे।
एषर्ग्यजुः परमेतच्च सामायमथर्वेयमन्या चविद्या।।
Verse 17
ॐ' ह्रीं ॐ ह्रीमित्युपनिषत् ॥