Upanishad 49 Transliteration
Upanishad 49 Transliteration
तुलस्युपनिषद्
16 verses total
Verse 1
अथ तुलस्युपनिषदं व्याख्यास्यामः ।
नारद ऋषिः।
अथर्वाङ्गिरश्छन्दः।
अमृता तुलसी देवता ।
सुधा बीजम् ।
वसुधा शक्तिः ।
नारायणः कीलकम् ।
श्यामां श्यामवपुर्धरां ऋक्स्वरूपां यजुर्मनां ब्रह्माथर्वप्राणां कल्पहस्तां पुराणपठितां अमृतोद्भवां अमृतरसमञ्जरीं अनन्तां अनन्तरसभोगदां वैष्णवीं विष्णुवल्लभां मृत्युजन्मनिबर्हणी दर्शनात्पापनाशिनीं स्पर्शनात्पावनीं अभिवन्दनाद्रोगनाशिनीं सेवनान्मृत्युनाशिनीं वैकुण्ठार्चनाद्विपद्धन्त्रीं भक्षणात् वयुनप्रदां प्रदक्षिण्याद्दरिद्रयनाशिनीं मूलमृल्लेपनान्महापापभञ्जिनीं घ्राणतर्पणादन्तर्मलनाशिनीं य एवं वेद स वैष्णवो भवति ।
वृथा न छिन्द्यात्।
दृष्ट्वा प्रदक्षिणं कुर्यात् ।
रात्र्यां न स्पृशेत् ।
पर्वणि न विचिन्वेत्।
यदि विचिन्वति स विष्णुहा भवति।
श्रीतुलस्यै स्वाहा ।
विष्णुप्रियायै स्वाहा।
अमृतायै स्वाहा।
श्रीतुलस्यै विद्महे विष्णुप्रियायै धीमहि।
तन्नो अमृता प्रचोदयात् ॥
Verse 2
अमृतेऽमृतरूपासि अमृतत्वप्रदायिनि ।
त्वं मामुद्धर संसारात् क्षीरसागरकन्यके ॥
Verse 3
श्रीसखि त्वं सदानन्दे मुकुन्दस्य सदा प्रिये। वरदाभयहस्ताभ्यां मां विलोकय दुर्लभे ॥
Verse 4
अवृक्षवृक्षरूपासि वृक्षत्वं मे विनाशय । तुलस्यतुलरूपासि तुलाकोटिनिभेऽजरे ॥
Verse 5
अतुले त्वतुलायां हि हरिरेकोऽस्ति नान्यथा ।
त्वमेव जगतां धात्री त्वमेव विष्णुवल्लभा ।।
Verse 6
त्वमेव सुरसंसेव्या त्वमेव मोक्षदायिनी।
त्वच्छायायां वसेल्लक्ष्मीस्त्वन्मूले विष्णुरव्ययः ।।
Verse 7
समन्ताद्देवताः सर्वाः सिद्धचारणपन्नगाः । यन्मूले सर्वतीर्थानि यन्मध्ये ब्रह्मदेवताः ।।
Verse 8
यदग्रे वेदशास्त्राणि तुलसीं तां नमाम्यहम्।
तुलसि श्रीसखि शुभे पापहारिणि 'पुण्यदे ॥
Verse 9
नमस्ते नारदनुते नारायणमनः प्रिये । ब्रह्मानन्दाश्रुसंजाते वृन्दावननिवासिनि।।
Verse 10
सर्वावयवसंपूर्ण अमृतोपनिषद्रसे ।
त्वं मामुद्धर कल्याणि महापापाब्धिदुस्तरात् ॥
Verse 11
सर्वेषामपि पापानां प्रायश्चित्तं त्वमेव हि।
देवानां च ऋषीणां च पितृणां त्वं सदा प्रिये ॥
Verse 12
विना श्रीतुलसीं विप्रा येऽपि श्राद्धं प्रकुर्वते ।
वृथा भवति तच्छ्राद्धं पितृणां नोपगच्छति ॥
Verse 13
तुलसीपत्रमुत्सृज्य यदि पूजां करोति वै।
आसुरी सा भवेत् पूजा विष्णुप्रीतिकरी न च ॥
Verse 14
यज्ञं दानं जपं तीर्थ श्राद्धं वै देवतार्चनम्।
तर्पणं मार्जनं चान्यन्न कुर्यात्तुलसीं विना ॥
Verse 15
तुलसीदारुमणिभिः जपः सर्वार्थसाधकः ।
एवं न वेद यः कश्चित् स विप्रः श्वपचाधमः ।।
Verse 16
इत्याह भगवान् ब्रह्माणं नारायणः, ब्रह्मा नारदसनकादिभ्यः सनकादयो वेदव्यासाय, वेदव्यासः शुकाय, शुको वामदेवाय, वामदेवो मुनिभ्यः, मुनयो मनुभ्यः प्रोचुः ।
य एवं वेद स स्त्रीहत्यायाः प्रमुच्यते ।
स वीरहत्यायाः प्रमुच्यते ।
स ब्रह्महत्यायाः प्रमुच्यते ।
स महाभयात् प्रमुच्यते ।
स महादुःखात् प्रमुच्यते ।
देहान्ते वैकुण्ठमवाप्नोति वैकुण्ठमवाप्नोति । इत्युपनिषत् ॥