Upanishad 13 Transliteration
Upanishad 13 Transliteration
तुरीयातीतोपनिषद्
1 verses total
Verse 1
अथ तुरीयातीतावधूतानां कोऽयं मार्गस्तेषां का स्थितिरिति सर्वलोक पितामहो भगवन्तं पितरमादिनारायणं परिसमेत्योवाच। तमाह भगवान्नारायणो योऽयमवधूतमार्गस्थो लोके दुर्लभतरो नतु बाहुल्यो यद्येको भवति स एव नित्यपूतःस एव वैराग्यमूर्तिः स एव ज्ञानाकारः स एव वेदपुरष इति ज्ञानिनो मन्यते । महापुरूषो यस्तच्चित्तं मय्येवावतिष्ठते।अहं च तस्मिन्नेवावस्थितः।सोऽयमादौ तावत्वक्रमेण कुटीचको बहूदकत्वं प्राप्य
बहूदको हं सत्वमवलम्ब्य हं सः परमहंसो भूत्वा स्वरूपानुसंधानेन सर्वप्रपञ्चं विदित्वा दण्डकमण्डलुकटिसूत्रकौपीनाच्छादनं स्वविध्युक्तक्रियादिकं सर्वमप्सु संन्यास्य दिगम्बरो भूत्वा विवर्णजीर्णवल्कलाजिनपरिग्नहमपि
संत्यज्य तदूर्ध्वममन्त्रवदाचरन्क्षौराभ्यङ्गस्न्नानोर्ध्व-पुण्ड्रादिकं विहाय लौकिकवैदिकमप्युपसंहृत्य सर्वत्र
पुण्यापुण्यवर्जितो ज्ञानाज्ञानमपि विहाय शीतोष्णसुखदुः खमानावमानं निर्जित्य वासनात्रयपूर्वकं निन्दाऽनिन्दागर्वमत्सर-दम्भदर्पेच्छद्वेषकामक्रोधलोभमोहहर्षामर्षासूयात्मसंरक्षणादिकं दग्ध्वाः स्ववपुः कुणपाकारमिव पश्यन्नयत्नेन्नानियमेन लाभालाभौ समौ कृत्वा गोवृत्त्या प्राणसंधारणं कुर्वन्यत्प्राप्तं
तेनैव निर्लोलुपः सर्वविद्यापाण्डित्यप्रपञ्चं भस्मीकृत्य स्वरूपं गोपयित्वा ज्येष्ठाऽज्येष्ठत्वानपलापकः
सर्वोत्कृष्टत्वासर्वात्मकत्वाद्वैतं कल्पयित्वा मत्तो व्यतिरिक्तः कश्चिन्नान्योऽस्तीति देवगुह्यादिध-
नमात्मन्युपसंहृत्य दुःखेन नोद्विग्नः सुखेन नानुमोदको रागे निःस्पृहःसर्वत्र शुभाशुभयोरनाभिस्न्नेहः
सर्वेन्द्रियोपरपः स्वपूर्वापन्नाश्रमाचारविद्याधर्म-प्राभवमननुस्मरन्त्यक्तवर्णाश्रमाचारः सर्वदा
दिवानक्तसमत्वेनास्वप्नः सर्वत्र सर्वदा संचारशीलो देहमात्रावशिष्टो जलस्थलकमण्डलुः सर्वदानुन्मुत्तो बालोन्मत्तपिशाचवदेकाकी संचरन्नसंभाषणपरः स्वरूपध्यानेन निरालम्बम-वलम्ब्य स्वात्मनिष्ठानुकूलेन
सर्वं विस्मृत्य तुरीयातीतावधूतवेषेणाद्वैतनिष्ठापरः प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः कृतकृत्यो भवतीत्युपनिषत्।।