Upanishad 64 Transliteration
Upanishad 64 Transliteration
योगचूडामण्युपनिषद्
121 verses total— Showing 1–50
Verse 1
योगचूडामणिं वक्ष्ये योगिनां हितकाम्यया।
कैवल्यसिद्धिदं गूढं सेवितं योगवित्तमैः ॥
Verse 2
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा।
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥
Verse 3
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ।
षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम् ॥
Verse 4
स्वदेहे यो न जानाति तस्य सिद्धिः कथं भवेत्।
चतुर्दलं स्यादाधारं स्वाधिष्ठानं च षड्दलम् ।।
Verse 5
नाभौ दशदलं पद्मं हृदये द्वादशारकम् ।
षोडशारं विशुद्धाख्यं भ्रूमध्ये द्विदलं तथा ।।
Verse 6
सहस्त्रदलसंख्यातं ब्रह्मरन्ध्रे महापथि ।
आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥
Verse 7
योनिस्थान द्वयोर्मध्ये कामरूपं निगद्यते ।
कामाख्यं तु गुदस्थाने पङ्कजं तु चतुर्दलम् ॥
Verse 8
तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता ।
तस्य मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् ॥
Verse 9
नाभौ तु मणिवद्बिम्बं यो जानाति स योगवित् । तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् ॥
Verse 10
त्रिकोणं तत्पुरं वह्नेरधोमेढ्रात्प्रतिष्ठितम्।
समाधौ परमं ज्योतिरनन्तं विश्वतोमुखम् ॥
Verse 11
तस्मिन्दृष्टे महायोगे यातायातो न विद्यते ।
स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः ।।
Verse 12
स्वाधिष्ठाना श्रयादस्मान्मेढ्रमेवाभिधीयते ।
तन्तुना मणिवत्प्रोतो योऽत्र कन्दः सुषुम्नया ॥
Verse 13
तन्नाभिमण्डले चक्रं प्रोच्यते मणिपूरकम् ।
द्वादशारे महाचक्रे पुण्यपापविवर्जिते ॥
Verse 14
तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति।
ऊर्ध्वं मेढ्रादधो नाभेः कन्दे योनिः खगाण्डवत्॥
Verse 15
तत्र नाडयः समुत्पन्नाः सहस्त्राणां द्विसप्ततिः ।
तेषु नाडीसहस्त्रेषु द्विसप्ततिरुदाहृता ॥
Verse 16
प्रधानाः प्राणवाहिन्यो भूयस्तासु दश स्मृताः ।
इडा च पिङ्गला चैव सुषम्ना च तृतीयगा॥
Verse 17
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी।
अलम्बुसा कुहूशचैव शङ्खिनी दशमी स्मृता ॥
Verse 18
एतन्नाडीमहाचक्रं ज्ञातव्यं योगिभिः सदा ।
इडा वामे स्थिता भागे दक्षिणे पिङ्गला स्थिता ॥
Verse 19
सुषुम्ना मध्यदेशे तु गान्धारी वामचक्षुषि।
दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे॥
Verse 20
यशस्विनी वामकर्णे चानने चाप्यलम्बुसा।
कुहूश्च लिङ्गदेशे तु मूलस्थाने तु शङ्खिनी ॥
Verse 21
एवं द्वारं समाश्रित्य तिष्ठन्ते नाडयः क्रमात् । इडापिङ्गलासौषुम्नाः प्राणमार्गे च संस्थिताः ॥
Verse 22
सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः । प्राणापानसमानाख्या व्यानोदानौ च वायवः ॥
Verse 23
नागः कूर्मोऽथ कृकरो देवदत्तो धनंजयः ।
हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले ॥
Verse 24
समानो नाभिदेशे तु उदानः कण्ठमध्यगः ।
व्यानः सर्वशरीरे तु प्रधानाः पञ्च वायवः ॥
Verse 25
उद्गारे नाग आख्यातः कूर्म उन्मीलने तथा।
कुकरः क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे ॥
Verse 26
न जहाति मृतं वापि सर्वव्यापी धनंजयः।
एते नाडीषु सर्वासु भ्रमन्ते जीवजन्तवः ॥
Verse 27
आक्षिप्तो भुजदण्डेन यथा चलति कन्दुकः । प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति ॥
Verse 28
प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च गच्छति। वामदक्षिणमार्गाभ्यां चञ्चलत्वान्न दृश्यते ॥
Verse 29
रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः। गुणबद्धस्तथा जीवः प्राणापानेन कर्षति ॥
Verse 30
प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च गच्छति।
अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति । ऊर्वाध:संस्थितावेतौ यो जानाति स योगवित्॥
Verse 31
हकारेण बहिर्याति सकारेण विशेत्पुनः ।
हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ॥
Verse 32
षट्शतानि दिवारात्रौ सहस्त्राण्येकविंशतिः । एतत्संख्यान्वितं मंत्रं जीवो जपति सर्वदा॥
Verse 33
अजपा नाम गायत्री योगिनां मोक्षदा सदा।
अस्याः संकल्पमात्रेण सर्वपापैः प्रमुच्यते ॥
Verse 34
अनया सदृशी विद्या अनया सदृशो जपः।
अनया सदृशं ज्ञानं न भूतं न भविष्यति ॥
Verse 35
कुण्डलिन्या समुद्भूता गायत्री प्राणधारिणी।
प्राणविद्या महाविद्या यस्तां वेत्ति स वेदवित्।।
Verse 36
कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलाकृतिः । ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाद्य तिष्ठति ॥
Verse 37
येन द्वारेण गन्तव्यं ब्रह्मद्वारं मनोमयम् । मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी ॥
Verse 38
प्रबुद्धा वह्नियोगेन मनसा मरुता सह ।
सूचीवद्नात्रमादाय व्रजत्यूर्ध्वं सुषुम्नया ॥
Verse 39
उद्घाटयेत्कवाटं तु यथा कुञ्चिकया गृहम् ।
कुण्डलिन्यां तथा योगी मोक्षद्वारं प्रभेदयेत्॥
Verse 40
कृत्वा संपुटितौ करौ दृढतरं बध्वा तु पद्मासनं गाढं वक्षसि संनिधाय चुबुकं ध्यानं च तच्चेष्टितम्। वारंवारमपानमूर्ध्वमनिलं प्रोच्चारयेत्पूरितं मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥
Verse 41
अङ्गानां मर्दनं कृत्वा श्रमसंजातवारिणा । कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥
Verse 42
ब्रह्मचारी मिताहारी योगी योगपरायणः ।
अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ।।
Verse 43
सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः ।
भुञ्जते शिवसंप्रीत्या मिताहारी स उच्यते ॥
Verse 44
कन्दोर्वे कुण्डलीशक्तिरष्टधा कुण्डलाकृतिः।
बन्धनाय च मूढानां योगिनां मोक्षदा सदा ॥
Verse 45
महामुद्रा नभोमुद्रा ओड्याणंच जलन्धरम्।
मूलबन्धं च यो वेत्ति स योगी मुक्तिभाजनम्॥
Verse 46
पार्ष्णिघातेन संपीड्य योनिमाकुञ्चयेदृढम् । अपानमूर्ध्वमाकृष्य मूलबन्धो विधीयते ॥
Verse 47
अपानप्राणयोरैक्यं क्षयान्मूत्रपुरीषयोः ।
युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥
Verse 48
ओडयाणं कुरुते यस्मादविश्रान्तं महाखगः ।
ओड्डियाणं तदेव स्यान्मृत्युमातङ्गकेसरी ॥
Verse 49
उदरात्पश्चिमं ताणमधोनाभेर्निगद्यते ।
ओड्याणमुदरे बन्धस्तत्र बन्धो विधीयते ॥
Verse 50
बध्नाति हि शिरोजातमधोगामि नभोजलम् ।
ततो जालन्धरो बन्धः कष्टदुःखौघनाशनः॥