Upanishad 65 Transliteration

Upanishad 65 Transliteration

योगराजोपनिषद

21 verses total

Verse 1
योगराजं प्रवक्ष्यामि योगिनां योगसिद्धये। मन्त्रयोगो लयश्चैव राजयोगो हठस्तथा ॥
Verse 2
योगश्चतुर्विधः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः। आसनं प्राणसंरोधो ध्यानं चैव समाधिकः ॥
Verse 3
एतच्चतुष्टयं विद्धि सर्वयोगेषु सम्मतम् । ब्रह्मविष्णुशिवादीनां मन्त्रं जाप्यं विशारदैः ॥
Verse 4
साध्यते मन्त्रयोगस्तु वत्सराजादिभिर्यथा। कृष्णद्वैपायनाद्यैस्तु साधितो लयसंज्ञितः ॥
Verse 5
नवस्वेव हि चक्रेषु लयं कृत्वा महात्मभिः। प्रथमं ब्रह्मचक्रं स्यात् त्रिरावृत्तं भगाकृति ॥
Verse 6
अपाने मूलकन्दाख्यं कामरूपं च तज्जगुः । तदेव वह्निकुण्डं स्यात् तत्त्वकुण्डलिनी तथा।।
Verse 7
तां जीवरूपिणीं ध्यायेज्ज्योतिष्ठं मुक्तिहेतवे। स्वाधिष्ठानं द्वितीयं स्याच्चक्रं तन्मध्यगं विदुः।।
Verse 8
पश्चिमाभिमुखं लिङ्गं प्रवालाङ्कुरसन्निभम् । तत्रोद्रीयाणपीठेषु तं ध्यात्वाकर्षयेज्जगत् ॥
Verse 9
तृतीयं नाभिचक्रं स्यात्तन्मध्ये तु जगत् स्थितम्। पञ्चावर्तां मध्यशक्तिं चिन्तयेद्विद्युदाकृति ॥
Verse 10
तां ध्यात्वा सर्वसिद्धीनां भाजनं जायते बुधः। चतुर्थे हृदये चक्रं विज्ञेयं तदधोमुखम्॥
Verse 11
ज्योतीरूपं च तन्मध्ये हंसं ध्यायेत् प्रयत्नतः। तं ध्यायतो जगत् सर्वं वश्यं स्यान्नातत्न संशयः ॥
Verse 12
पञ्चमं कण्ठचक्रं स्यात् तत्र वामे इडा भवेत्। दक्षिणे पिङ्गला ज्ञेया सुषुम्ना मध्यतः स्थिता ॥
Verse 13
तत्र ध्यात्वा शुचि ज्योतिः सिद्धीनां भाजनं भवेत् । षष्ठं च तालुकाचक्रं घण्टिकास्थान मुच्यते॥
Verse 14
दशमद्वारमार्गं तद्राजदन्तं च तज्जगुः । तन्न शून्ये लयं कृत्वा मुक्तो भवति निश्चितम् ॥
Verse 15
भूचक्रं सप्तमं विद्याद्बिन्दुस्थानं च तद्विदुः । ध्रुवोर्मध्ये वर्तुलं च ध्यात्वा ज्योतिः प्रमुच्यते ॥
Verse 16
अष्टमं ब्रह्मरन्ध्रं स्यात् परं निर्वाणसूचकम् । तं ध्यात्वा सूतिकाग्रामं धूमाकारं विमुच्यते ॥
Verse 17
तच्च जालन्धरं ज्ञेयं मोक्षदं नीलचेतसम्। नवमं व्योमचक्रं स्यादश्रैः षोडशभिर्युतम्॥
Verse 18
संविदब्रूयाच्च तन्मध्ये शक्तिरुद्धा स्थिता परा। तत्र पूर्णां गिरौ पीठे शक्तिं ध्यात्वा विमुच्यते ।।
Verse 19
एतेषां नवचक्राणामेकैकं ध्यायतो मुनेः । सिद्धयो मुक्तिसहिताः करस्थाः स्युर्दिने दिने ॥
Verse 20
एको दण्डद्वयं मध्ये पश्यति ज्ञानचक्षुषा। कदम्बगोलकाकारं ब्रह्मलोकं व्रजन्ति ते ॥
Verse 21
ऊर्ध्वशक्तिनिपातेन अध:शक्तेर्निकुञ्चनात्। मध्यशक्तिप्रबोधेन जायते परमं सुखं जायते परमं सुखम्। इति ॥